________________
नाकर: ।
विचार- 88 वर्त्तमानवद्वा (३-३ - १२१ पाणिनौ ) इत वचनात् सेत्स्यन्नपि व्यवहारत उच्चते । तत आह- बुद्ध्यते - अवगच्छति केवलज्ञानेन यथाऽहं निश्चयतो निष्ठितार्थो भविष्यामि निःशेषकर्मांशापगमतः तत आह-मुच्यतेऽशेषकर्माशैः इति गम्यते, मुच्यमानश्च कर्माणुवेदनापरितापरहितो भवति, तत आह-परिनिर्वाति- सामस्त्येन शीतीभवति । समस्तमेतदेकेन पर्यायेण स्पष्टयति सर्वदुःखानामन्तं करोतीति, भगवानाह - गौतम ! नायमर्थः समर्थः- नायमर्थः सङ्गतो यत्समुद्धातं गतः सन् सर्वदुःखानामन्तं करोतीति, योगनिरोधस्याद्याप्यकृतत्वात्, सयोगस्य च वक्ष्यमाणयुक्त्या सिद्ध्यभावादिति भावः, ततः किं करोति ? अत आह-' से णं' इत्यादि, सोऽधिकृतसमुद्धातगतः णमिति वाक्यालङ्कारे, ततः समुद्धातात्प्रतिनिवर्त्तते, प्रतिनिवर्त्य च ततः प्रतिनिवर्त्तनात्पश्चादनन्तरं मनोयोगमपि वाग्योगमपि काययोगमपि युनक्ति-व्यापारयति, यतः स भगवान्, भवधारणीयकर्मसु नामगोत्रवेदनीयेषु अचिन्त्यमाहात्म्यसमुद्घातवशतः प्रभूतेष्वायुषा सह समीकृतेष्वपि अन्तर्मुहूर्त्तभाॐ विपरमपदत्वतस्तस्मिन् काले यद्यनुत्तरोपपातिकादिना देवेन मनसा पृच्छ्यते तर्हि प्रश्नव्याकरणाय मनः पुद्गलान् गृहीत्वा मनोयोगं युनक्ति, तमपि सत्यं असत्यामृषारूपं वा मनुष्यादिना च पृष्टोऽपृष्टो वा कार्यवशतो वागपुद्गलान् गृहीत्वा वाग्योगं युनक्ति, तमपि सत्यं असत्यामृषा वा न शेषान् वाङ्मनसोर्योगान्, क्षीणरागादित्वात् । आगमनादौ चौदारिककाययोगम्, तथा हि-भगवान् कार्यवशतः कुतश्चित्स्थानाद्विवक्षिते स्थाने आगच्छेत् यदिवा क्वापि गच्छेत् अथवा तिष्ठत् ऊर्द्धस्थानेन वाऽवतिष्ठेत् निषीदेत् वा तथाविधश्रमापन त्वग्वर्त्तनं वा कुर्यात्, अथवा विवक्षिते स्थाने तथाविधसम्पातिमसत्त्वाकुलां भूमिमवलोक्य तत्परिहाराय जन्तुरक्षानिमित्तमुल्लङ्घनं प्रलङ्घनं वा कुर्यात्, तत्र सहजात्पादविक्षेपान्मनागधिकतर : पादविक्षेप: उल्लङ्घनं, स एवाधिकतर : प्रलङ्घनं, यदिवा प्रातिहारिकपीठफलकशय्यासंस्तारकं प्रत्यर्पयेत् यस्मादानीतं तस्मै समर्पयेत् । इह भगवताऽऽर्यश्यामेन प्रातिहारिकपीठफलकादीनां प्रत्यर्पणमेवोक्तं ततोऽवसीय नियमादन्तर्मुहूर्त्तावशेषायुष्क एवावर्जीकरणादिकमारभते न प्रभूतविशेषायुष्कः, अन्यथा ग्रहणस्यापि सम्भावात्तदप्युपादीयेत एतेन, यदाहुरेकेजघन्यतोऽन्तर्मुहूर्त्तावशेषे समुद्धातमारभते उत्कर्षतः षट्सु मासेसु शेषेष्विति तदपास्तं द्रष्टव्यम्, षट्सु मासेषु कदाचिदपान्तराले वर्षाकालसम्भवात्तन्निमित्तं पीठफलकादीनामादानमप्युपपद्येत न च तत्सूत्रसम्मत्तमिति तत्प्ररूपणमुत्सूत्रमवसेयम् । इति प्रज्ञापनाषट्त्रिंशत्तमपदसूत्रवृत्ती ४०० प्रतौ ३९३ पत्रे ॥ १० ॥
198211
प्रज्ञापना
विचाराः
1198211