________________
विचार- स्नाकरः।
प्रज्ञापना विचाराः
1॥१४0
व्यवस्थितानि, अभिसमन्वागतानि-उदयाभिमुखीभूतानि, उदीर्णानि विपाकोदयमागतानि, नोपशान्तानि-न सर्वथाऽभावमापन्नानि निकाचिताधव- | स्थोद्रेकरहितानि वा न भवन्ति, शेषं समस्तमपि कंठ्यम् । एवं शर्कराप्रभावालुकाप्रभाविषये अपि सूत्रे वक्तव्ये । पङ्कप्रभापृथिवीनैरयिकः ततोऽनन्तरमुधृतः तीर्थकरत्वं न लभते अन्तक्रियां पुनः कुर्यात्, धूमप्रभापृथिवीनैरयिकोऽन्तक्रिया-मपि न करोति सर्वविरतिं पुनर्लभते । तमःप्रभापृथिवीनैरयिकः सर्वविरतिमपि न लभते विरताविरति-देशविरतिं पुनर्लभते । अधः-सप्तमपृथिवीनैरयिकस्तामपि देशविरतिं न लभते यदि परं सम्यक्त्वमानं लभते । असुरादयो यावद्वनस्पतिकाया अनन्तरमुध्धृतास्तीर्थकरत्वं न लभन्ते, अन्तक्रियां पुनः कुर्युः, वसुदेवचरिते पुनर्नागकुमारेभ्योऽप्युध्धृतोऽनन्तरमैरावतक्षेत्रेऽस्यामेवावसर्पिण्यां चतुर्विंशतितमस्तीर्थकर उपदर्शितः, तदत्र तत्त्वं केवलिनो विदन्ति । तेजोवायवोऽनन्तरमुध्धृता अन्तक्रियामपि न कुर्वन्ति मनुष्येषु तेषामानन्तर्येणोत्पादाभावात्, अपि च त तिर्यसूत्पन्नाः केवलिप्रज्ञप्तं धर्म श्रवणतया लभेरन्, न तु बोधत इत्युक्तं प्राक् । वनस्पतिकायिका अनन्तरमुध्धृतास्तीर्थकरत्वं न लभन्ते, अन्तक्रियां पुनः कुर्युः । द्वित्रिचतुरिन्द्रिया अनन्तरमुधृतास्तामपि न कुर्वन्ति, मनःपर्यवज्ञानं पुनरुत्पादयेयुः । तिर्यपञ्चेन्द्रियमनुष्यव्यन्तर-ज्योतिष्का अनन्तरमुधृतास्तीर्थकरत्वं न लभन्ते, अन्तक्रियां पुनः कुर्युः । सौधर्मादयः सर्वार्थसिद्धिपर्यवसाना (रत्नप्रभा) नैरयिकवद्व-क्तव्याः । इति प्रज्ञापनायां विंशतितमपदसूत्रवृत्ती ५३२ प्रतौ ३८० पत्रे ॥ ८ ॥
अथानतदेवस्य तैजसशरीरावगाहना यथाऽङ्गलासङ्ख्येयभागप्रमाणमात्रा भवति, तथा लिख्यते
आणयदेवस्स णं भंते ! मारणंतियसमुग्घाएणं समोहयस्स तेयासरीरस्स के महालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! सरीरप्पमाणमेत्ता विक्खंभबाहल्लेणं आयामेणं जहन्नेण अंगुलस्स असंखेञ्जइभागं उक्कोसेणं जाव अहोलोइयगामा तिरियं जाव मणुस्सखेत्ते उड़े जाव अच्चुओ कप्पो । एवं आरणदेवस्स अच्चुयदेवस्स वि एवं चेव, णवरं उड्ढे जाव सयाई विमाणाई ॥ इति । वृत्तिर्यथा-आनतदेवस्यापि जघन्यतोऽङ्गलासङ्ख्येयभागप्रमाणा तैजसशरीरावगाहना, नन्वानतादयो देवा मनुष्येष्वेतोत्पद्यन्ते मनुष्याश्च मनुष्यक्षेत्र एवेति कथमङ्गलासङ्ख्येयभागप्रमाणा ? उच्चते-इह पूर्व भव सम्बन्धिनी मनुष्यस्त्रियमन्येन मनुष्येणोपभुक्तामानतदेवः कश्चनाप्यवधिज्ञानत उपलभ्यासन्नमृत्युतया विपरीतभावत्वात् सत्त्वचरितवैचित्र्यात् कर्मगतेरचिन्त्यत्वात् कामवृत्तेर्मलिनत्वाच्च, उक्तं च-" सत्त्वानां चरितं
||१४011