________________
प्रज्ञापना
विचार-6 पश्यति, तस्य तत्राभावात्, स्वशरीरं हि स्वात्मनि व्यवस्थितं नादर्श, ततः कथमात्मशरीरं च तत्र पश्येदिति ? प्रतिभाग-स्वशरीरस्य Latell रत्नाकरःछि | प्रतिबिम्बं पश्यति । अथ किमात्मकं प्रतिबिम्बम् ? उच्यते-छायापुद्गलात्मकम्, तथा हि-सर्वमैन्द्रियकं वस्तु स्थूलं चयापचयधर्मकं
विचाराः रश्मिवच्च, रश्मय इति छायापुद्गला व्यवह्रियन्ते, ते च छायापुद्गलाः प्रत्यक्षत एव सिद्धाः, सर्वस्यापि स्थूलवस्तुनश्छाया अध्यक्षतः प्रतिप्राणिप्रतीतेः । अन्यच्च यदि स्थूलवस्तु व्यवहिततया दूरस्थिततया वा नादर्शादिष्ववगाढरश्मिर्भवति, ततो न तत्र तत् दृश्यते
तस्मादवसीयते सन्ति छायाः पुद्गला इति, ते च छायापुद्गलास्तत्तत्सामग्रीवशाद्विचित्रपरिणमनस्वभावाः, तथा हि-ते च छायापुद्गला दिवा 119३८11
वस्तुन्यभास्वरे प्रतिगताः सन्तः स्वसम्बन्धिद्रव्याकारमाबिभ्राणाः श्यामरूपतया परिणमन्ते निशि कृष्णाभाः, एतच्च प्रसरति दिवसे सूर्यकरनिकरे निशि तु चन्द्रोद्योते प्रत्यक्षत एव सिद्धम् । त एव छायापरमाणव आदर्शादिभास्वरद्रव्यप्रतिगताः सन्तः स्वसम्बन्धिद्रव्याकारमादधाना यादृग्वर्णः स्वसम्बन्धिनि द्रव्ये कृष्णो नीलः सितः पीतो वा तदाभाः परिणमन्ते, एतदप्यादर्शादिष्वध्यक्षतः सिद्धम्, ततोऽधिकृतसूत्रेऽपि
ये मनुष्यस्य छायापरमाणव आदर्शमुपसङ्क्रम्य स्वदेहवर्णतया स्वदेहाकारतया च परिणमन्ते, तेषां तत्रोपलब्धिर्न शरीरस्य, ते च lae प्रतिबिम्बशब्दवाच्याः, अत उक्त-न शरीरं पश्यति किं तु प्रतिभागमिति, न चैतत्स्वमनीषिकाविजृम्भितम्, यत उक्तमागमे-“ सामा उ
दिया छाया, अभासुरगता निसिं तु कालाभा । सा चेव भासुरगया, सदेहवण्णा मुणेयव्वा ॥१॥जे आदरिसस्सन्तो, देहावयवा हवंति संकंता । तेसिं तत्थुवलद्धी, पगासजोगा न इयरेसि ॥२॥" मूलटीकाकारोऽप्याह-“यस्मात्सर्वमेव हि ऐन्द्रियकं स्थूलं द्रव्यं चयापचयधर्मकं रश्मिवच्च भवति, यतश्चादर्शादिषु छाया स्थूलस्य दृश्यतेऽवगाढरश्मिनः न चानवगाढरश्मिनः, ततः स्थूलद्रव्यस्य कस्यचिद्दर्शनं भवति न चान्तरितं दृश्यते किञ्चित् अतिदूरस्थं वा, अतः 'पलिभागं' प्रतिभागं 'पेहति' पश्यतीति । एवमसिमण्यादिविषयाण्यपि षट् (सप्त) सूत्राणि भावनीयानि । सूत्रपाठोऽप्येवम् “ असि पेहमाणे मणूसे किं असि पेहइ अत्ताणं पेहइ पलिभागं पेहइ ? गोयमा ! नो असि पेहइ नो अप्पाणं पेहइ पलिभागं पेहइ।" इत्यादि । इति श्रीप्रज्ञापनापञ्चदशपदसूत्रवृत्तौ प्रथमोद्देशके ४०० प्रतौ ॥७॥ अथ यस्माद्दण्डकात्समागतस्तीर्थकरादित्वं लभते तल्लिख्यते
119३८॥ रयणप्पभापुढवीनेरइए णं भंते ! रयणप्पभापुढवीनेरइएहितो अणंतरं उवट्टित्ता तित्थगरत्तं लभेञ्जा ? गोयमा ! अत्थेगइए लभेञ्जा