________________
रत्नाकर:
विचार- षोडशलक्षणः प्रथमवर्गेण चतुष्करूपेण गुण्यते जाता चतुःषष्टिः, तस्याः प्रथमं छेदनकं द्वात्रिंशत्, द्वितीयं षोडश, तृतीयमष्टौ, चतुर्थं
चत्वारः, पञ्चमं द्वौ, षष्ठमेक इति, एवमन्यत्रापि भावनीयम् । तत्र पञ्चमवर्गे द्वात्रिंशच्छेदनकानि, षष्ठे चतुःषष्टिः, ततः पञ्चमवर्गेण षष्ठे
वर्गे गुणिते पण्णवति छेदनकानि प्राप्यन्ते । अथवा एकं रूपं स्थापयित्वा ततः षण्णवतिवारान् द्विगुणद्विगुणीक्रियते कृतं च सद्यदि ae तावत्प्रमाणो राशिर्भवति ततोऽवसातव्यमेष षण्णवतिच्छेदनकदायी राशिरिति । तदेवं जघन्यपदमभिहितं, इदानीमुत्कृष्टपदमाह-' उक्कोसपए
असंखेज्जा' इत्यादि, उत्कृष्टपदे ये मनुष्या भवन्ति तेऽसङ्ख्येयाः, तत्रापि कालतः परिमाणचिन्तायां प्रति समयमेकैकमनुष्यापहारे ||१३७11
सामस्त्येनासङ्ख्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, क्षेत्रतो रूपे प्रक्षिप्ते मनुष्यैरेका श्रेणिः परिपूर्णाऽपहियते, किमुक्तं भवति ?उत्कृष्टपदे ये मनुष्यास्तुषु मध्ये एकस्मिन्नसत्कल्पनया रूपे प्रक्षिप्ते सकलाऽपि श्रेणिरेकाऽपह्रियते, तस्याश्च श्रेणे: क्षेत्रकालाभ्यामपहारमार्गणा कालतस्तावदसङ्खयेयाभिरुत्सर्पिण्यवसर्पिणीभिः क्षेत्रतोऽङ्गलप्रथमवर्गमूलं तृतीयवर्गमूलप्रत्युत्पन्नम्, किमुक्तं भवति ?
अङ्गलमात्रक्षेत्रप्रदेशराशिरसत्कल्पनया षट्पञ्चाशदधिकषोडशलक्षणं ततस्तृतीयवर्गमुलेनासकल्पनया द्विकलक्षणेन गुण्यते, गुणिते च सति | यावान् प्रदेशराशिर्भवति असत्कल्पनया द्वात्रिंशदेतावत्प्रमाणैः खण्डैरपहियमाणा यावत् श्रेणिनिष्ठामियति तावन्मनुष्या अपि निष्ठामुपयान्ति,
आह-कथमेकस्याः श्रेणेर्यथोक्तप्रमाणैः खण्डैरपहियमाणाया असङ्ख्येया उत्सर्पिण्यव-सर्पिण्यो लगन्ति ? उच्यते-क्षेत्रस्यासूक्ष्मत्वात्, Tel उक्तं च सूत्रेऽपि “ सुहुमो य होइ कालो, तत्तो सुहुमयरं हवइ खेत्तं । अंगुलसेठीमेत्ते, उसप्पिणिओ असंखिञ्जा ॥ १॥” इति al प्रज्ञापनाद्वादशपदसूत्रवृत्तौ ४४० प्रतौ २१५ पत्रे ॥ ६ ॥
अथादर्शादौ स्वच्छे वस्तुनि यत्प्रतिबिम्बं दृश्यते तत्किमात्मकं ? इति निर्णयो लिख्यते
अद्दायं पेहमाणे मणुसे किं अद्दायं पेहति अत्ताणं पेहइ पलिभागं पेहइ ? गोयमा ! अद्दायं पेहति नो अप्पाणं पेहति पलिभागं ae पेहति, एवं एतेणं अभिलावेणं असिं मणिं दुद्धं पाणिं तेल्लं फाणियं वसं ॥ इति ।। वृत्तिर्यथा-'अद्दायं पेहमाणे' इत्यादि, 'अद्दायं' इति
आदर्श पेहमाणे' इति प्रेक्ष्यमाणो मनुष्यः किमादर्श प्रेक्ष्यते आहोस्विदात्मानम् ? अत्रात्मशब्देन शरीरमभिगृह्यते, उत पलिभागं' इति hel प्रतिभाग-प्रतिबिम्बम् ? भगवानाह-आदर्श तावत्प्रेक्षत एव, तस्य स्फूटरूपस्य यथावस्थिततया तेनोपलम्भात्, आत्मानं-आत्मशरीरं पुनर्न
119३७||