________________
प्रज्ञापना विचाराः
विचार- | पढमक्खरंसन्नियट्ठाणा ॥१॥" एतेषामेव एकोनत्रिंशदङ्कस्थानानां पूर्वपुरुषैः पूर्वाङ्गैः परिसङ्ख्यानं कृतं तदुपदर्श्यते-तत्र चतुरशीतिर्लक्षाणि रत्नाकर:leel
t omerपूर्वाङ्ग, चतुरशीतिर्लक्षाश्चतुर-शीतिलक्षगुण्यन्ते ततः पूर्व भवति, तस्य परिमाणम्-सप्ततिः कोटिलक्षाणि षट्पंचाशत्कोटिसहस्राणि ७०५६००००००००००, एतेन भागो हियते तत इदमागतम्-एकादशपूर्वकोटीकोट्यो द्वाविंशतिः पूर्वकोटीलक्षाणि चतुरशीतिः पूर्वकोटीसहस्राणि अष्टादशोत्तराणि पूर्वकोटिशतानि, एकाशीतिः पूर्वलक्षाणि पञ्चनवतिः पूर्वसहस्राणि त्रीणि षट्पञ्चाशदधिकानि पूर्वशतानि,
अत ऊर्ध्वं पूर्वैर्भागो न लभ्यते ततः पूर्वाङ्गैर्भागहरणं, तत्रेदमागतम्-एकविंशतिः पूर्वाङ्गलक्षाणि सप्ततिः पूर्वाङ्गसहस्राणि षट् एकोनषष्ट्यधिकानि 11१३६ पूर्वाङ्गशतानि, तत ऊर्दू चेदमन्यदुद्धरितमवतिष्ठते-त्र्यशीतिर्लक्षाणि पञ्चाशत्सहस्राणि त्रीणि शतानि षट्त्रिंशदधिकानि मनुष्याणामिति
११२२८४११८८१९५३५६ । २१७०६५९ । ८३५०३३६ । तथा च पूर्वाचार्यप्रणीता अत्र गाथा : -“ मणुयाण जहण्णपदे, एक्कारसपुव्वकोडिकोडीओ। बावीसकोडिलक्खा, कोडीसहस्साइ चुलसीई ॥ १॥ अद्वेव य कोडिसया, पुव्वाण दसुत्तरा तओ होति । एक्कासीई लक्खा, पंचाणउई सहस्साइं॥२॥ छप्पन्ना तिन्निसया, पुव्वाणं पुव्ववणिया अण्णे । एत्तो पुव्वंगाई, इमाइ अहियाइ अण्णाई ॥ ३ ॥ लक्खाइ एगवीसं, पुव्वंगाण सयरी सहस्साइं । छच्चेवेगूणट्ठा, पुव्वंगाणं सया होंति ॥ ४ ॥ तेसीइ सयसहस्सा, पण्णासं खलु भवे सहस्साइं । तिन्नि सया छत्तीसा, एवइया अविगला मणुया ॥ ५ ॥ इति । इमामेव सङ्ख्या विशेषोपलम्भनिमित्तं प्रकारान्तरेणाह-'अहव णं छन्नउइ च्छेयणगदाई रासी' इति, 'अहव णं' ति प्राग्वत् षण्णवतिच्छेदनकानि यो राशिर्ददाति स षण्णवतिच्छेदनकदायी राशिः, किमुक्तं भवति ? यो राशिरद्धेनार्द्धन छिद्यमानः षण्णवति वारान् छेदं सहते पर्यन्ते च सकलमेकं रूपं पर्यवसितं भवति स षण्णवतिच्छेदनकदायी राशिरिति, कः पुनरेवंविध इति चेत् ? उच्यते-एष एव षष्ठो वर्गः पञ्चमवर्गगुणितः, कोऽत्र प्रत्यय इति चेत् ? उच्यते-इह प्रथमवर्गश्छिद्यमानो द्वे छेदनके ददाति, तद्यथा-प्रथमच्छेदनकं द्वौ द्वितीयमेकमिति, द्वितीयो वर्गश्चत्वारि च्छेदनकानि, तत्र प्रथममष्टौ, द्वितीयं चत्वारः तृतीयं द्वौ चतुर्थमेक इति । एवं तृतीयो वर्गोऽष्टौ छेदनकानि प्रयच्छति,
चतुर्थः षोडश, पञ्चमो द्वात्रिंशतं षष्ठश्चतुःषष्ठिं, स चैवं पञ्चमवर्गेण गुणित: षण्णवतिः कथमेतदवसेयमिति चेत् ? उच्यते-इह यो यो Hel वर्गो येन येन वर्गेण गुज्यते तत्र तत्र तयोर्द्वयोरपि छेदनकानि प्राप्यन्ते, यथा-प्रथमवर्गेण गुणिते द्वितीयवर्गे षट्, तथाहि-द्वितीयो वर्ग:
१३६||