________________
विचार- समाहारश्चतुर्यमलपदं तस्य । सम्प्रति स्पष्टतरं सङ्ख्यानमुपदर्शयति- ' अहव णं छट्टो वग्गो पंचमवग्गपडुप्पणो ' इति, अथवेतिरत्नाकरः। 888 प्रकारान्तरे 'ण' मिति वाक्यालङ्कारे षष्ठो वर्ग: पञ्चमवर्गेण प्रत्युत्पन्नो-गुणित: सन् यावान् भवति तावत्प्रमाणा जघन्यपदे मनुष्याः, तत्रैकस्य वर्ग एक एव स च वृद्धिं न गत इति वर्गो न गण्यते, द्वयोर्वर्गश्चत्वार एष प्रथमो वर्ग : ४, चतुर्णा वर्गः षोडश एष द्वितीयो वर्ग: १६, षोडशानां वर्गे द्वे शते षट्पञ्चाशदधिके एष तृतीयो वर्ग: २५६, द्वयोः शतयोः षट्पञ्चाशदधिकयोर्वर्गः पञ्चषष्टिः सहस्राणि पञ्चशतानि षट्त्रिंशदधिकानि एष चतुर्थो वर्गः ६५५३६, एतस्य वर्गश्चत्वारि कोटिशतानि एकोनत्रिंशत्कोटयः एकोनपञ्चाशल्लक्षा: सप्तषष्टिः सहस्राणि द्वे शते षण्णवत्यधिके एष पञ्चमो वर्ग : ४२९४९६७२९६, उक्तञ्च " चत्तारि य कोडिसया, अउणत्तीसं च होंति कोडीओ । अउणावण्णं लक्खा, सत्तट्ठी चेव य सहस्सा ॥ १ ॥ दो य सया छण्णउया, पंचमवग्गो समासओ होइ । एयस्सो वग्गो, छट्ठो जो होइ तं वोच्छं ॥ २ ॥ " एतस्य पञ्चमस्य वर्गस्य यो वर्गः स षष्ठो वर्गस्तस्य परिमाणम् एकं कोटीकोटीशतसहस्रं चतुरशीतिः कोटीकोटीसहस्राणि चत्वारि सप्तषष्ठ्यधिकानि कोटीकोटीशतानि चतुश्चत्वारिंशत्कोटिलक्षाणि सप्तकोटीसहस्राणि त्रीणि सप्तत्यधिकानि कोटिशतानि पञ्चनवतिर्लक्षा: एकपञ्चाशत्सहस्राणि षट्शतानि षोडशोत्तराणि १८४४६७४४०७३७०९५५१६१६, एष षष्ठो वर्गः । उक्तं च-" लक्खं कोडाकोडी, चउरासीई भवे सहस्साइं । चत्तारि य सत्तट्ठा, होंति सया कोडिकोडीणं ॥ १ ॥ चोयालं लक्खाई, कोडीणं सत्त चेव य सहस्सा । तिण्णिसया सत्तयरी, कोडीणं होंति नायव्वा ॥ २ ॥ पंचाणउई लक्खा, एक्कावण्णं भवे सहस्साइं । छस्सोलसुत्तरसया, एसो छट्टो हवइ वग्गो ॥ ३ ॥ इति । एष षष्ठो वर्गः । पंचमवर्गेण गुण्यते गुणिते च सति यावान् राशिर्भवति तावत्प्रमाणा जघन्यपदे मनुष्याः, ते चैतावन्तो भवन्ति- ७९२२८१६२५१४२६४३३७५३५४३९५०३३६, एतान्येकोनत्रिंशदङ्कस्थानानि । एतानि च कोटाकोट्यादिद्वारेण कथमप्यभिधातुं न शक्यन्ते ततः पर्यन्तवर्त्तिनोऽङ्कस्थानादारभ्याङ्कस्थानसङ्ग्रहमात्रं पूर्वपुरुषप्रणीतेन गाथाद्वयेना- भिधीयते छ त्तिण्णि तिण्णि सुण्णं, पंचेव य नव य तिण्णि चत्तारि । पंचेव तिण्णि नव पंच सत्त तिण्णेव तिण्णेव ॥ १ ॥ चउ छ द्दो चउ एक्को, पण दो छक्किक्कगो य अट्ठेव । दो दो णव सत्तेव य, ठाणाई उवरि हुंताई ॥ २ ॥ 1193411 अथवाऽयमङ्कस्थानप्रथमाक्षरसङ्ग्रहः " छत्ति ति सुपंण तिच पं, ति ण पं स ति ति च छ दो च ए। पं दो छ ए अ दो दु ण स
33
1193411