________________
प्रज्ञापना विचाराः
विचार- Jee| सप्पिणीहिं अवहीरंति कालतो, खेत्ततो रूवपक्खित्तेहिं मणुस्सेहिं सेढी अवहीरति, तीसे सेढीए आगासखेत्तेहिं अवहारो मग्गिज्जइ
8. असंखेज्जा असंखेज्जाहि उस्सप्पिणिओसप्पिणिहिं कालतो, खेत्ततो अंगुलपढमवग्गमूलं तइयवग्गमूलपडुप्पणं ॥ इति । वृत्तिर्यथा
मनुष्याणां बद्धान्यौदारिकशरीराणि स्यात्-कदाचित्सङ्ख्येयानि कदाचिदसङ्ख्येयानि, कोऽत्राभिप्रायः इति चेत् ? उच्यते-इह द्वये मनुष्यागर्भव्युत्क्रान्तिकाः सम्मूछिमाश्च, तत्र गर्भव्युत्क्रान्तिकाः सदाऽवस्थायिनो, न स कश्चित्कालोऽस्ति यो गर्भव्युत्क्रान्तिकमनुष्यविरहितो
भवति, सम्मूर्छिमाश्च कदाचिद्विद्यन्ते कदाचित् सर्वथा तेषामभावो भवति, तेषामुत्कर्षतोऽन्तर्मुहूर्त्तायुष्कत्वात्, उत्पत्त्यन्तरस्य चोत्कर्षतश्चतुर्वि119३४|| शतिमुहूर्त्तप्रमाणत्वात्, ततो यदा सर्वथा सम्मूछिमा मनुष्या न विद्यन्ते किन्तु केवला गर्भव्युत्क्रान्तिका एव तिष्ठन्ति तदा स्यात्सङ्ख्येयाः,
सङ्ख्येयानामेव गर्भव्युत्क्रान्तिकानां भावात्, महाशरीरत्वे प्रत्येकशरीरत्वे च सति परिमितक्षेत्रवर्त्तित्वात्, यदा तु सम्मूर्छिमास्तदाऽसङ्ख्येयाः सम्मूर्छिमानामुत्कर्षतः श्रेण्यसङ्ख्येयभागवर्त्तिनभःप्रदेशराशिप्रमाणत्वात्, तथा चाह-'जहन्नपदे संखेज्जा' इत्यादि, जघन्यपदं नाम यत्र सर्वस्तोका मनुष्याः प्राप्यन्ते, आह-किमत्र सम्मूर्छिमानां ग्रहणमुत गर्भव्युत्क्रान्तिकानाम् ? उच्यते-गर्भव्युत्क्रान्तिकानां तेषामेव सदाऽवस्थायितया सम्मूर्छिमविरहे सर्वस्तोकतया प्राप्यमाणत्वात्, उत्कृष्टपदे तूभयेषामपि ग्रहणम्, यदाह मूलटीकाकार:-" सेतराणां ग्रहणमुत्कृष्टपदे जघन्यपदे गर्भव्युत्क्रान्तिकानामेव केवलानां ग्रहण" मिति, अस्मिन् जघन्यपदे सङ्ख्येया मनुष्याः, तत्र सङ्ख्येयक सङ्घयेयभेदभिन्नमिति न ज्ञायते कियन्तस्ते ? इति विशेषं निर्धारयति-सङ्ख्येयाः कोटीकोट्यः, अथवा इदमन्यत् विशेषतरं परिमाणम् ‘तिजमलपयस्सुवरिं चउजमलपयस्स हेट्ठा' इति, इह मनुष्यसङ्ख्याप्रतिपादकान्यकोनत्रिंशदङ्कस्थानानि वक्ष्यमाणानि, तत्र समयपरिभाषयाऽष्टानामष्टानामङ्कस्थानानां यमलपदमिति संज्ञा, चतुर्विंशत्या चाङ्कस्थानैस्त्रीणि यमलपदानि लब्धानि, उपरि पञ्चाङ्कस्थानानि तिष्ठन्ति, अथवा यमलपदमष्टभिरङ्कस्थानैस्ततश्चतुर्थं यमलपदं न प्राप्यते तत उक्तं त्रयाणां यमलपदानामुपरि पञ्चभिरङ्कस्थानैर्वर्द्धमानत्वात्, चतुर्थस्य च यमलपदस्याधस्ताअिभिरङ्कस्थानीनत्वात् । अथवा द्वौ द्वौ वर्गों समुदितौ एकं यमलपदम्, चत्वारो वर्गाः समुदिताः द्वे यमलपदे, षट् वर्गाः समुदितास्त्रीणि यमलपदानि, अष्टौ वर्गाः समुदिताश्चत्वारि यमलपदानि, तत्र यस्मात्षण्णां वर्गाणामुपरि वर्तन्ते सप्तमस्य च वर्गस्याधस्तात् तत उक्तं त्रियमलपदस्योपरि चतुर्यमलपदस्याधस्तादिति, त्रियमलपदस्येति-तृतीयानां यमलपदानां समाहारस्त्रियमलपदं तस्य, तथा चतुर्णा यमलपदानां
||१३४॥