________________
विचार-6 जिनवचनात् तच्चेदम्-“ गोला य असंखिज्जा, असंखनिगोअओ हवइ गोलो । एक्केक्कंमि निगोए, अणंतजीवा मुणेयव्वा ॥१॥
।" ॥५॥ सम्प्रत्येतेषामेव निगोदजीवानां प्रणाणमभिधित्सुराह- लोगागास' इत्यादि, एकैकस्मिन, लोकाकाशप्रदेशे एकैकं निगोदजीवं स्थापय, एवमेकैकस्मिन् आकाशप्रदेशे एकैकजीवरचनया मीयमाना अनन्तालोका-अनन्तलोकाकाश-प्रदेशप्रमाणा निगोदजीवा भवन्ति ॥ ६ ॥ इति प्रज्ञापनाप्रथमपदवृत्तौ ४०० प्रतौ ३१ पत्रे ।। ४ ॥
अत्र सूत्ररुचिबीजरुच्यधिगमरुचीनां स्वरूपं लिख्यते||१३||
जो सुत्तमहिनंतो, सुएण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व, सो सुत्तरुइ त्ति नायव्वो ॥१॥ एगपएणेगाई, पयाइ जो पसरई उ सम्मत्तं । उदएव्व तिल्लबिंदू, सो बीयरुइ त्ति नायव्वो ॥२॥ सो होइ अभिगमरूई, सुयणाणं जस्स अस्थओ दिलै । एक्कारस अंगाई, पइन्नगं दिट्ठिवाओ य॥३ । एतासां वृत्तिर्यथा-' जो सुत्त' इत्यादि, यः सूत्रम्-अङ्गप्रविष्टमङ्गबाह्यं वाऽधीयानस्तेन श्रुतेनाङ्गप्रविष्टेनाङ्गबाह्येन वा सम्यक्त्वमवगाहते स सूत्ररुचिरिति ज्ञातव्यः । बीजरुचिमाह-' एगपएणेगाई' इत्यादि, एकेन पदेन प्रक्रमाज्जीवादीनामनेकानि पदानि प्राकृतत्वेन विभक्तिव्यत्यथादनेकेषु जीवादिषु पदेषु यः सम्यक्त्वमिति धर्मधर्मिणोरभेदोपचारात्सम्यक्त्ववानात्मा प्रसरति तुशब्दोऽवधारणार्थः प्रसरत्येव, कथं ? इत्याह-उदक इव तैलबिन्दुः, किमुक्तं भवति ? यथा-उदकैकदेशगतोऽपि तैलबिन्दुः समस्तमुदकमाक्रामति तथैकदेशोत्पन्नरुचिरप्यात्मा तथाविधक्षयोपशमभावादशेषेषु तत्त्वेषु रुचिमान् भवति स एवंविधो बीजरुचिरिति ज्ञातत्यः । अधिगमरुचिमाह-' सो होइ अहिगमई' इत्यादि, यस्य श्रुतज्ञानमर्थतो दृष्टमेकादशाङ्गानि, प्रकीर्णकमित्यत्र जातावेकवचनम्, ततोऽयमर्थ:-प्रकीर्णकानि-उत्तराध्ययनादीनि दृष्टिवादः, चशब्दादुपाङ्गानि च, स भवत्यधिगमरुचिरित्यादि । इति प्रज्ञापनाप्रथमपदसूत्रवृत्तौ ४०० प्रतौ ४५ पत्रे ॥ ५ ॥
अथ गर्भजमनुष्यसङ्ख्या लिख्यते -
मणुस्साणं भंते ! केवइया ओरालियसरीरगा पन्नत्ता ? गोयमा ! दुविहा पन्नत्ता तंजहा-बद्धेल्लगा य मुक्केल्लगा य, तत्थ णं जे ते बद्धेल्लगा ते णं सिय संखेज्जा सिय असंखेज्जा, जहन्नपदे संखेज्जा संखेज्जाओ कोडाकोडीओ तिजमलपयस्स उवरिं चउजमलपयस्स lol हिट्ठा, अहव णं छट्ठो वग्गो पंचमवग्गपडुप्पणो, अहव णं छउन्नइच्छेयणगदाई रासी । उक्कोसपए असंखेञ्जा, असंखेंजाहिं उस्सप्पिणिओ
119३३