________________
| प्रज्ञापना
रत्नाकर:
विचाराः
विचार-100
समयं वक्कंताणं, समयं तेसिं सरीरनिव्वत्ती । समयं आणुग्गहणं, समयं ऊसासणीसासो ॥१॥ एक्कस्स उ जं गहणं, बहूणं साहारणाण तं चेव । जं बहुयाणं गहणं, समासओ तंपि एगस्स ।। २ ।। साहारणमाहारो, साहारणआणुपाणगहणं च । साहारणजीवाणं, साहारणलक्खणं एयं ॥ ३ ॥ जह अयगोलो धंतो, जाओ तत्ततवणिज्जसंकासो । सव्वो अगणिपरिणओ णिगोयजीवे तहा जाण ॥ ४ ॥ एक्कस्स दोन्ह तिन्ह व, संखिज्जाण व ण पासिउं सक्का । दीसंति सरीराई, णिगोयजीवाणणंताणं ॥ ५ ॥ लोगागासपएसे,
णिगोयजीवं ठवेहि इक्किक्कं । एवं मविज्जमाणा, हवंति लोगा अणंता उ ॥ ६ ॥ एतद्वृत्तिर्यथा-' समयं' इत्यादि, 'समयं' 119३२||
युगपद्व्युत्क्रान्तानां-उत्पन्नानां सतां तेषां-साधारणजीवानां समयं'-एककालं शरीरनिवृत्तिर्भवति, समकं च प्राणापानग्रहणं-प्राणापानयोग्यपुद्गलोपादानम्, ततः समकम्-एककालं तदुत्तरकालभाविनावुच्छ्वासनिश्वासौ ॥ १॥ तथा एकस्य यदाहारादिपुद्गलानां ग्रहणं तदेव बहूनामपि साधारणजीवानामवसेयम्, किमुक्तं भवति ? यदाहारादिकमेको गृह्णाति शेषा अपि तच्छरीराश्रिता बहवोऽपि तदेव गृह्णन्तीति, तथा च यद् बहूनां ग्रहणं तत्सङ्क्षेपादेकत्र शरीरे समावेशादेकस्यापि ग्रहणम् ।। २ ॥ सम्प्रत्युक्तार्थोपसंहारमाह- साहारण' इत्यादि, सर्वेषामप्येकशरीराश्रितानां जीवानामुक्तप्रकारेण यत्साधारणं-साधारणः, सूत्रे नपुंसकतानिर्देशः आर्षत्वात्, आहारः-आहारयोग्यपुद्गलोपादानम्, यच्च साधारणं प्राणापानयोग्यपुद्गलोपादानमुपलक्षणमेतत् यौ साधारणावुच्छ्वासनिःश्वासौ च साधारणा शरीरनिवृत्तिः एतत्साधारणजीवानां लक्षणम् ॥ ३ ॥ सम्प्रति यथैकस्मिन्निगोदशरीरेऽनन्ता जीवाः परिणताः प्रतीतिपथमवतरन्ति तथा प्रतिपादयन्नाह-'जह अयगोलो' इत्यादि, यथा अयोगोलो ध्मातः सन् तप्ततपनीयसङ्काशः सर्वोऽग्निपरिणतो भवति तथा निगोदजीवान् जानीहि, निगोदरूपेऽप्येकैकस्मिन् शरीरे तच्छरीरात्मकतयाऽनन्तान् जीवान् परिणतान् जानीहि ॥ ४ ॥ एवं च सति-' एगस्स' इत्यादि, एकस्य द्वयोस्त्रयाणां यावत्सङ्ख्येयानां, वा शब्दादसङ्ख्येयानां वा निगोदजीवानां शरीराणि द्रष्टुं न शक्यानि, कुतः इति चेत् ? उच्चते-अभावात्, न ह्येकादिजीवगृहीतानि अनन्तवनस्पतिशरीराणि सन्ति, अनन्तजीवपिण्डात्मकत्वात्तेषाम्, कथं तर्युपलभ्यानि ? इत्यत आह-'दीसंति' इत्यादि, दृश्यन्ते शरीराणि निगोदजीवानां-बादरनिगोदजीवानामनन्तानां न तु सूक्ष्मनिगोदजीवानाम्, तेषां शरीराणामनन्तजीवसङ्घाता-त्मकत्वेऽप्यनुपलभ्यस्वभावत्वात्, तथा सूक्ष्मपरिणामपरिणतत्वात्, अथ कथमेतदवसीयते निगोदरूपशरीरं नियमादनन्तजीवपरिणामावि- वितं भवतीति ? उच्यते
119३२|