________________
विचाररत्नाकरः ।
1192311
33
४
| |द्रव्यभेदेन विविक्तं प्राप्तते इति सा पञ्चत्रिंशत् रसपञ्चकेन गुण्यते जातं पञ्चसप्ततिशतम्, स्पर्शाश्च यद्यप्यष्टौ भवन्ति तथाऽपि गन्धाङ्गेषु यथोक्तरूपेषु प्रशस्या व्यवहारतश्चत्वार एव मृदुलघुशीतोष्णरूपाः, ततः पञ्चसप्ततिशतं स्पर्शचतुष्टयेन गुण्यते, जातानि सप्तशतानि । उक्तं च -“ मूलतयकट्टनिज्जास, पत्तपुप्फफलमेयं गंधंगा । वण्णादुत्तरभेया, गंधंगसया मुणेयव्वा ॥ १ ॥ अस्या व्याख्यानरूपं गाथाद्वयम्-“ मुत्था' सुवण्णच्छल्ली, अगुरू वाला तमालपत्तं " च । तह य पियंगू जाईफलं च जाईए गंधंगा ॥ १ ॥ गुणणाए सत्तसया, पंचहि वणंहि सुरभिगंधेणं । रसपणगेणं तह फासेहि य चउहिं पसत्येहिं ॥ २ ॥ " अत्र ' जाईए गंधंगा' इति जात्या जातिभेदेनामूनि गन्धाङ्गानि शेषं भावितम् । 'कइ णं' इत्यादि, कति भदन्त ! पुष्पजातिकुलकोटिशतसहस्राणि प्रज्ञप्तानि ?, भगवानाह-गौतम् ! षोडश पुष्पजातिकुलकोटिशतसहस्राणि प्ज्ञप्तानि तद्यथा चत्वारि जलजानां पद्मानां जातिभेदेन, चत्वारि स्थलजानां कोरण्टकादीनां जातिभेदेन, चत्वारि महागुल्मिकादीनां जात्यादीनाम्, चत्वारि महावृक्षाणां मधूकादीनामिति । ' कइ णं ' इत्यादि, भदन्त ! वल्लयः ? कति वल्लिशतानि प्रज्ञप्तानि ?, भगवानाह - गौतम ! चतस्रो वल्लयः स्रगपुष्पादिमूलभेदेन, ताश्च मूलटीकाकृता वैवित्येन न व्याख्याता इति संप्रदायादवसेयाः, चत्वारि वल्लिशतान्येवान्तरजातिभेदेन । ' कइ णं' इत्यादि, कति भदन्त ! लताः कति लताशतानि प्रज्ञप्तानि ?, भगवानाह - गौतम ! अष्टौ लता नागलताद्या या मूलभेदेन ता अपि संप्रदायादवगन्तव्याः मूलटीकाकारेणाव्याख्यानात्, अष्टौ लताशतानि प्रज्ञप्तानि अवान्तरजातिभेदेन । ' कइ णं' इत्यादि, कति भदन्त ! हरितकायाः कति हरितकायशतानि प्रज्ञप्तानि ? भगवानाह-गौतम ! त्रयो हरितकाया: प्रज्ञप्ताः-जलजा: स्थलजा: उभयजा:, एकैकस्मिन् शतमवान्तरभेदानामिति, त्रीणि हरितकायशतानि । ‘फलसहस्सं च' इत्यादि, फलसहस्रं च वृन्तबद्धानां वृन्ताकप्रभृतीनां, फुलसहस्रं च नालबद्धानाम्, ' ते वि सव्वे' इत्यादि, तेऽपि सर्वे भेदाः, अपिशब्दादन्येऽपि तथाविधा हरितकायमेव समवतरन्ति, हरितकायेऽन्तर्भवन्ति, हरितकायोऽपि वनस्पतौ, वनस्पतिरपि स्थावरेषु, स्थावरा अपि जीवेषु । तत एवं समनुगम्यमानाः समनुगम्यमानाः तथा जात्यन्तर्भावेन स्वत एव सूत्रतः, तथा समनुग्राह्यमानाः २ परेण सूत्रत एव, तथा समनुप्रेक्ष्यमाणाः २ अनुप्रेक्षया अर्थालोचनरूपया, तथा समनुचिन्त्यमानाः २ तथा तथा तन्त्रयुक्तिभिरेतयोरेव द्वयोः काययोः समवतरन्ति, तद्यथा त्रसकाये च स्थावरकाये च, ' एवामेव ' इत्यादि, एवमेव उक्तेनैव प्रकारेण ' सपुव्वावरेणं' ति, पूर्वं
8888888888
1192311