________________
विचार- रत्नाकरः
119२४||
चापरं च पूर्वापरं सह पूर्वापरं येन स सपूर्वापर उक्तप्रकारस्तेन उक्तविषयपूर्वापरपर्यालोचनयेति भावार्थः । 'आजीवगदिटुंतेणं' ति, IG जीवाभिगम आ-सकलजगदभिव्याप्त्या जीवानां यो दृष्टान्तः-परिच्छेदः स आजीवदृष्टान्तस्तेन सकलजीवनिदर्शनेनेत्यर्थः, आह च मूलटीकाकार:
विचाराः आजीवकदृष्टान्तेन सकलजीवनिदर्शनेने ' त्ति चतुरशीतिजातिकुलकोटियोनिप्रमुखशतसहस्राणि भवन्तीत्याख्यातं मया अन्यैश्च ऋषभादिभिरिति । अत्र चतुरशीतिसङ्ख्योपादानमुपलक्षणं, तेनान्यान्यपि जातिकुलकोटियोनिप्रमुखशतसहस्राणि वेदितव्यानि, तथा हि-पक्षिणां द्वादशजातिकुलकोटियोनिप्रमुखशतसहस्राणि, भुजगपरिसर्पाणां नव, उरगपरिसर्पाणां दश, चतुष्पदानां दश, जलचराणामर्द्धत्रयोदशानि, चतुरिन्द्रियाणां नव, त्रीन्द्रियाणामष्टौ, द्वीन्द्रियाणां सप्त, पुष्पजातीनां घोडश । एतेषां चैकत्र मीलने त्रिनवतिर्जातिकुलकोटियोनिप्रमुखशतसहस्राणि सार्द्धानि भवन्ति, ततश्चतुरशीतिसङ्ख्योपादानमुपलक्षणमवसेयं, न चैतद्व्याख्यानं स्वमनीषिकाविभितम्, यत उक्तं चूर्णी 'आजीवगदिटुंतेणं'ति, अशेषजीवनिदर्शनेन चउरासीजातिकुलकोटियोनिप्रमुखशतसहस्रा एतत्प्रमुखा अन्येऽपि विद्यन्ते । इति श्रीजीवाभिगमसूत्रवृत्तितृतीयप्रतिपत्तौ तिर्यगधिकारे प्रथमोद्देशके २६४ प्रतौ ८० पत्रे ॥ ३ ॥
केचिच्च मिथ्यात्विकृतानि सर्वसत्त्वमैत्रीसत्यभाषणपरद्वव्यानपहारसुशीलादिरूपाणि मार्गानुसारिधर्मकर्त्तव्यान्यपि निष्फलान्येव इत्याहुः तच्चाज्ञानविलसितं वेदितव्यम्, यतो व्यन्तरदेवाः प्राग्जन्मकृतानां सुचीर्णानां सुचरितानां शुभफलानां सकलसत्त्वमैत्रीसत्यभाषणपरद्रव्यानपहारसुशीलादिकर्मणां फलमनुभवन्तीति सिद्धान्तेऽभिहितम्, ते च प्राग्जन्मनि मिथ्यादृश एव, सम्यग्दृशां विमानवर्जायुर्बधाभावात्, सिद्धान्तश्चायम्
तत्य णं बहवे वाणमंतरा देवा देवीओ य आसयंति सयंति चिट्ठति णिसीदन्ति तुयटृति रमंति ललंति कीलंति मोहंति पुरापोराणाणं सुचिण्णाणं सुपरिक्कंताणं सुभाणं कल्लाणाणं कडाणं कम्माणं फलवित्तिविसेसं पच्चणुब्भवमाणा विहरंति ॥ इति । वृत्तिर्यथा- 'तत्य' इति तत्र तेषु उत्पादपर्वतादिगतहंसासनादिषु यावन्नानारूपसंस्थानसंस्थितपृथिवीशिलापटकेषु ‘णं' इति पूर्ववत् बहवो वानमन्तरा देवा देव्यश्च यथासुखमासते शेरते-दीर्घकायप्रसारणेन वर्त्तन्ते न तु निद्रां कुर्वन्ति तेषु देवयोनिकतया निद्राऽभावात्, तिष्ठन्ति-ऊर्ध्वस्थानेन 3 २४|| वर्त्तन्ते, निषीदन्ति-उपविशन्ति, तुयटृति' इति त्वग्वर्त्तनं कुर्वन्ति वामपार्श्वत: परावृत्य दक्षिणपार्श्वेन तिष्ठन्ति दक्षिणापार्श्वतो वा परावृत्य