________________
1192211
विचार- 88 तद्यथा-पोतजाः सम्मूच्छिमाश्च, इह ये अण्डजव्यतिरिक्ता गर्भव्युत्क्रान्ताः, ते सर्वे जरायुजाः अजरायुजा वा पोतजा इति विवक्षितमतोऽत्र रत्नाकरः ॥ 88 द्विविधो यथोक्तस्वरूपो योनिसङ्ग्रह उक्तः, अन्यथा गवादीनां जरायुजत्वात्तृतीयोऽपि जरायुजलक्षणो योनिसङ्ग्रहो वक्तव्यः स्यादिति, तत्र ये पोतजास्ते त्रिविधाः प्रज्ञप्ताः, तद्यथा स्त्रियः पुरुषा नपुंसकाश्च तत्र ये ते सम्मूर्छिमास्ते सर्वे नपुंसकाः, शेषद्वारकलापः पूर्ववत्, नवरं स्थितिर्जघन्येनान्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि पल्योपमानि, च्यवनद्वारेऽधश्चिन्तायां यावच्चतुर्थी पृथिवी, ऊर्ध्वं यावत्सहस्रारः, जातिकुलकोटियोनिप्रमुखशतसहस्राणि अत्रापि दश । 'जलचराणां ' इत्यादि, जलचराणां भदन्त ! कतिविधो योनिसङ्ग्रहः प्रज्ञप्तः ? - भगवानाह - गौतम ! त्रिविधो योनिसङ्ग्रहः प्रज्ञप्तः, तद्यथा - अण्डजाः पोतजा: सम्मूच्छिमाश्च, अण्डजास्त्रिविधा: प्रज्ञप्ताः, तद्यथा-स्त्रियः ॐ पुरुषा नपुंसकाश्च, पोतजास्त्रिविधा प्रज्ञप्ताः, तद्यथा- स्त्रियः पुरुषा नपुंसकाश्च तत्र ये ते सम्मूच्छिमास्ते सर्वे नपुंसकाः । शेषद्वारकलापचिन्ता प्राग्वत्, नवरं स्थितिच्यवनजातिकुलकोटिषु नानात्वम्, स्थितिर्जघन्येनान्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटी, च्यवनद्वारेऽधश्चिन्तायां यावत्सप्तमी ऊर्ध्वं यावत्सहस्रारः, कुलकोटियोनिप्रमुखशतसहस्राणि अर्द्धत्रयोदशः सार्द्धानि द्वादशेत्यर्थ: । ' चउरिंदियाणं ' इत्यादि, चतुरिन्द्रियाणां भदन्त ! कति जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि ? भगवानाह - गौतम ! नव जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि एवं त्रीन्द्रियाणामष्टौ जातिकुलकोटियोनिप्रमुखशतसहस्राणि द्वीन्द्रियाणां सप्त जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि । इह जातिकुलकोट्यो योनिजातीयास्ततो भिन्नजातीयाभिधानप्रसङ्गतो गन्धाङ्गानि भिन्नजातीयत्वात् प्ररूपयति-' कइ णं ' इत्यादि, कति भदन्त ! गन्धाङ्गानि क्वचिद्गन्धा इति पाठः तत्र पदैकदेशे पदसमुदायोपचारात् गन्धा इति गन्धाङ्गानीति द्रष्टव्यानि प्रज्ञप्तानि ? तथा गन्धाङ्गशतानि प्रज्ञप्तानि ? भगवानाह - गौतम ! सप्त गन्धाङ्गानि सप्त गन्धाङ्गशतानि प्रज्ञप्तानि, इह सप्त गन्धाङ्गानि परिस्थूरजातिभेदादमूनि तद्यथा-मूलं १ त्वक् काष्ठं३ निर्यासः ४ पत्र५ पुष्पं६ फलं७ च । तत्र मूलं मुस्ताबालकोशीदादि १, त्वक् सुवर्णच्छल्लीत्वचाप्रभृति २, काष्ठं चन्दनागुरुप्रभृति३, निर्यासः कर्पूरादि४, पत्रं जातिपत्रतमालादि५, पुष्पं प्रियङ्गुनागरपुष्पादि६, फलं जातिफलकर्कोलकैलालवङ्गप्रभृति७, एते च वर्णमधिकृत्य प्रत्येकं कृष्णादिभेदात्पञ्चपञ्चभेदा इति वर्णपञ्चकेन गुण्यन्ते जाताः पञ्चत्रिंशत्, गन्धचिन्तायामेते सुरभिगन्धय एवेत्येकेन गुणिताः पञ्चत्रिंशञ्जाताः पञ्चत्रिंशदेव 'एकेन गुणितं तदेव भवती ' ति न्यायात्, तत्राप्येकैकस्मिन् वर्णभेदे रसपञ्चकं
I
जीवाभिगम विचाराः
1192211