________________
रत्नाकरः
विचार-8 कति लतासया पण्णत्ता गोया ! अट्ठ लयाओ अट्ठ लयासया पण्णत्ता । कति णं भंते! हरियकाया हरियकायसया पण्णत्ता ? गोयमा ! तओ हरियकाया हरियकायसता पण्णत्ता । फलसहस्सं च बिंटवद्धाणं, फुलसहस्सं च णालबद्धाणं, एते सव्वे वि हरितकायमेव समोयरंति, ते एवं समणुगम्ममाणा २ एवं समणुगाहिज्जमाणा २ एवं समणुपेहिज्जमाणा २ एवं समणुचिंतिज्जमाणा२ एएसु चेव दोसु का सु समोयरंति । तं जहा-तसकाए चेव, थावरकाए चेव, एवामेव सपुव्वावरेणं आजीवियदिट्टंतेणं चउरासीति जातिकुलकोडीजोणीपमुहसतसहस्सा भवंतीति मक्खाया ॥ इति । वृत्तिर्यथा-' तेसि णं' इत्यादि, तेषां भदंत ! जीवानां कति किं प्रमाणानि जातिकुलकोटीनां योनिप्रमुखाणि योनीप्रवाहाणि शतसहस्राणि योनिप्रमुखशतसहस्राणि जातिकुलकोटियोनिप्रमुखशतसहस्राणि भवन्ति ? भगवानाह - द्वादश जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि तत्र जातिकुलयोनीनामिदं परिस्थूरमुदाहरणं पूर्वाचार्यैरुपदर्शितम्-जातिरिति किल तिर्यग्जातिः तस्याः कुलानि - कृमिकीटवृश्चिकादीनि, इमानि च कुलानि योनिप्रमुखाणि तथा हि-एकस्यामेव योनौ अनेकानि कुलानि भवन्ति, तथा हि-छगणयोनौ कृमिकुलं, कीटकुलं, वृश्चिककुलमित्यादि, अथवा जातिकुलमित्येकं पदम् जातिकुलयोन्योश्च परस्परं विशेषः एकस्यामेव योनावनेकजातिकुलसम्भवात्, तद्यथा-एकस्यामेव छगणयोनौ कृमिजातिकुलं कीटजातिकुलं वृश्चिकजातिकुलमित्यादि, एवमेकस्यामेव योनाववान्तरजातिभेदभावादनेकानि योनिप्रवाहाणि जातिकुलानि सम्भवन्तीति उत्पद्यन्ते खचरपञ्चेन्द्रियतिर्यग्योनिजानां द्वादश जातिकुलकोटिशतसहस्राणि, अत्र सङ्ग्रहणीगाथा - " जोणीसंगहलेस्सा, दिट्ठी नाणे य जोग उवओगे । उववाय ठिई समुग्धाय चवण जाई कुलविहीओ " ॥ अस्या अक्षरगमनिका - प्रथमं योनिसङ्ग्रहद्वारं, ततो लेश्याद्वारं, ततो दृष्टिद्वारमित्यादि । ' भुयगाणं भंते ! ' इत्यादि, भुजगानां भदंत ! कतिविधो योनिसङ्ग्रहः प्रज्ञप्तः ? इत्यादि पक्षिवत्सर्वं निरवशेषं वक्तव्यम्, नवरं स्थितिच्यवनकुलको नानात्वं, तद्यथा स्थितिर्जघन्येनान्तर्मुहूर्त्तं, उत्कर्षतः पूर्वकोटी, च्यवनं उद्वर्त्तना, तत्र नरकगतिचिन्तायामधो यावद्द्वितीया पृथिवी, उपरि यावत्सहस्रारकल्पस्ता-वदुत्पद्यते, नव तेषां जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि, एवमुरः परिसर्पाणामपि वक्तव्यम्, नवरं तत्र च्यवनद्वारेऽधश्चि-न्तायां यावत्पञ्चमी पृथिवीति वक्तव्यम्, कुलकोटिचिन्तायां दश जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि । — चउप्पयाणं ’इत्यादि, चतुष्पदानां भदंत ! कतिविधो योनिसङ्ग्रहः प्रज्ञप्तः ? भगवानाह - गौतम ! द्विविधो योनिसङ्ग्रहः प्रज्ञप्तः,
1192911
ခိုင်ခိုင်
သာသာသာသာသာသင်၌င်33
1192911