________________
विचार- | उत्कर्षतश्च वक्तव्यम् । अनुत्तरोपपातिककल्पातीतदेवपुरुषस्य जघन्यतोऽन्तरं वर्षपृथक्त्वम्, उत्कर्षतः सङ्ख्येयानि सागरोपमाणि सातिरेकाणि, Madel रत्नाकरः।
तत्र सङ्घयेयानि सागरोपमाणि तदन्यवैमानिकेषु सङ्ख्येयवारोत्पत्त्या सातिरेकाणि मनुष्यभवैः । तत्र सामान्याभिधानेऽप्यतदपराजितान्तमवगन्तव्यम्, सर्वार्थसिद्धेः सकृदेवोत्पादतस्तत्रान्तरासम्भवात् । अन्ये त्वभिदधति-भवनवासिन आरभ्य आईशानादमरस्य जघन्यतोऽन्तर्मुहूर्त्तम् । सनत्कुमारादारभ्याच्युतकल्पं यावन्नवमासाः । नवसु ग्रैवेयकेषु सर्वार्थसिद्धमहाविमानवर्जेष्वनुत्तर-विमानेषु च नववर्षाणि । ग्रैवेयकान्
यावत् सर्वत्रापि उत्कर्षतो वनस्पतिकालः । विजयादिषु चतुर्षु महाविमानेषु द्वे सागरोपमे । उक्तं च-" आईसाणादमरस्स, अंतरं हीणयं 119१९॥
मुहुत्तंतो । आसहसारे अच्चुयणुत्तरदिणमासवासनव ॥१॥थावरकालुक्कोसो, सव्वद्वे बीयओ न उववाओ, दोअयरा विजयाइसु" । इति श्रीजीवाभिगमसूत्रवृत्तौ द्वितीयप्रतिपत्तौ २६४ प्रतौ ४३ पत्रे ॥ १॥
अथ यैः कारणैर्नारकाणां सातोदयो भवति तानि लिख्यन्ते
उववाएण व सायं, नेरइओ देवकम्मुणा वावि । अज्झवसाणनिमित्तं, अहवा कम्माणुभावेणं ॥ १॥ इति । वृत्तिर्यथा-' उववाएण' इत्यत्र सप्तम्यर्थे तृतीया, उपपातकाले सात-सातवेदनीयकर्मोदयं कश्चिद्वेदयते यः प्राग्भवे दाघच्छेदादिव्यतिरेकेण मरणमुपगतोऽनतिसंक्लिष्टाध्यवसायी समुत्पद्यते, तदानीं हि न तस्य प्राग्भवानुबद्धं आधिरूपं दुःखं नापि क्षेत्रस्वभावज नापि परमाधार्मिककृतं, नापि परस्परोदीरितम्, तत एवंविधदुःखाभावादसौ सातं वेदयते, इत्युच्यते ॥ १॥'देवकम्मुणावावि' इति देवकर्णणा पूर्वसाङ्गतिकदेवप्रयुक्तया क्रियया, तथाहि-गच्छति पूर्वसाङ्गतिको देवः पूर्वपरिचितस्य नैरयिकस्य वेदनोपशमनार्थं यथा बलदेवः कृष्णवासुदेवस्य, स च वेदनोपशमो देवकृतो मनाक्कालमात्र एव भवति तत उर्द्ध नियमात् क्षेत्रस्वभावजा अन्या वा वेदनाः प्रवर्त्तन्ते, तथास्वाभाव्यात् ॥ २ ॥ 'अज्झवसाणनिमित्तं 'इति अध्यवसायनिमित्तं सम्यक्त्वोत्पादकाले, तत उर्दू कदाचित्तथाविधविशिष्टशुभाध्यवसायप्रत्ययं कश्चिन्नैरयिको बाह्यक्षेत्रस्वभावजवेदनासद्भावेऽपि सातोदयमेवानुभवति, सम्यक्त्वोत्पादकाले हि जात्यन्धस्य चक्षुर्लाभ इव महान् प्रमोद उपजायते, तदुत्तरकालमपि कदाचित्तीर्शकरगुणानुमोदनाद्यनुगतां विशिष्टां भावनां भावयतः, ततो बाह्यक्षेत्रस्वभावजवेदनासद्भावेऽप्यन्तः सातोदयो 1199९॥ विजृम्भमाणो न विरुध्यते ३ । ' अहवा कम्माणुभावेणं' इति, अथवा कर्मानुभावेन बाह्यतीर्थकरजन्मदीक्षाज्ञानापवर्गकल्याणसम्भूति