________________
विचार-
रत्नाकरः
119१८॥
जाव विहरिस्सामित्ति कट्ट, जामेव दिसिं पाउब्भूए तामेव दिसि पडिगए । तए णं से पएसी राया कल्लं जाव जलते सेयबियापामोक्खाई | जीवाभिगम सत्तगामसहस्साइं चत्तारिभाए करेइ एगं भागं बलवाहणस्स दलइ जाव कूडागारसालं करेइ, तत्थ णं बहूहिं पुरिसेहिं जाव उवक्खडेत्ता
विचाराः बहूणं समणं जाव परिभाएमाणे विहरइ इति राजप्रश्नीयोपाङ्गवृत्तौ ८६ प्रतौ ८४ पत्रे ॥५॥ ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकरेश्रीहीरविजयसूरिशिष्योपाध्याय
श्रीकीर्तिविजयसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे श्रीराजप्रश्नीयविचारनामा द्वितीयस्तरङ्गः ॥ २ ॥
सुमनःसन्ततिसेव्या, रसरुचिरा प्रोच्चगोत्रसंभूता । विमलीकृतजननिवहा, जिनवाणी जयति गङ्गेव ॥१॥ अथ क्रमायाताः श्री जीवाभिगमविचारा यथादेवभवाच्चयुत्वा पुनरपि यावता कालेन देवः स्यात्ताल्लिख्यते
देवपुरिस्स णं भंते ! कालओ केवच्चिरं होइ ? गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सइकालो, भवणवासिदेवपुरिसाणं ताव जाव सहस्सारो जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो । आणतदेवपुरिसस्स णं भंते ! केवतिअं कालं अंतर होइ ? गोयमा ! जहन्नेणं वासपुहुत्तं उक्कोसेणं वणस्सतिकालो, एवं जावगेवेज्जदेवपुरिसस्सवि, अणुत्तरोववातियदेवपुरिसस्स जहन्नेणं वासपुहत्तं उक्कोसेणं संखेज्जाइं सागरोवमाई साइरेगाइं इति । वृत्तिर्यथा-' देवपुरिसस्स णं भंते !' इत्यादि, देवपुरुषस्य भदन्त ! कालत: कियच्चिरं अन्तरं भवति ? भगवानाह-गौतम ! जघन्येनान्तर्मुहूर्तं देवभवाच्च्युत्वा गर्भव्युत्क्रान्तिकमनुष्येषूत्पद्य पर्याप्तिसमाप्त्यनन्तरं तथाविधाध्यवसायमरणेन भूपोऽपि कस्यापि देवत्वेनोत्पादसंभवात्, उत्कर्षतो वनस्पतिकालः । एवमसुरकुमारादारभ्य निरन्तरं तावद्वक्तव्यं यादसहस्रारकल्पदेवपुरुषस्यान्तरम्, आनतकल्पदेवस्यान्तरं जघन्येन वर्षपृथक्त्वं कस्मादेतावदिहान्तरमिति चेदुच्यते-इह यो गर्भस्थः सर्वाभिः पर्याप्तिभिः पर्याप्तः शुभाध्यवसायोपेतो मृतः सन् आनतकल्पादारतो ये देवास्तेषूत्पद्यते, नानतादिषु तस्य तावन्मात्रकालस्य तद्योग्याध्यवसायविशुद्ध्यभावात्, ततो य आनतादिभिश्च्युतः सन् भूयोऽप्यानतादिषूत्पत्स्यते सनियमाच्चारित्रमवाप्य, चारित्रं चाष्टमे वर्षे, १८॥ तत उक्तं जघन्यतो वर्षपृथक्त्वं, उत्कर्षतो वनस्पतिकालः । एवं प्राणतारणाच्युतकल्पग्रैवेयकदेवपुरुषाणामपि प्रत्येकमन्तरं जघन्यत ael