________________
विचार- हिताहितनिमित्तमिति भावः, तत्र अनभिसन्धिपूर्विकार्थप्राप्तिर्यदृच्छा, पठ्यते च-" अतर्कितोपस्थितमेव सर्वं, चित्रं जनानां सुखदुःखजातम् । प्रश्नव्याकरणरत्नाकरः
Local विचाराः काकस्य तालेन यथाऽभिघातो, न बुद्धिपूर्वोऽत्र वृथाऽभिमानः ॥ १॥” तथा -" सत्यं पिशाचाः स्म वने वसामो, भेरी करात्रैरपि न स्पृशामः । यदृच्छया सिध्यति लोकयात्रा, भेरी पिशाचा: परिताडयन्ति ॥ २ ॥” इति, स्वभावः पुनर्वस्तुतः स्वत एव तथा परिणति भावः, उक्तं च-“कः कण्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः
प्रयत्नः ? ॥ ३ ॥” इति । दैव-विधिरिति लौकिकी भाषा, तत्रोक्तम्-" प्राप्तव्यमर्थं लभते मनुष्यः, किं कारणं दैवमलङ्घनीयम् । तस्मान्न 119061180 शोचामि न विस्मयो मे, यदस्मदीयं न हि तत्परेषाम् ॥ ४ ॥ द्वीपादन्यस्मादपि, मध्यादपि जलनिधेर्दिशोऽप्यन्तात् । आनीय झटिति घटयति,
विधिरभिमतमभिमुखीभूतः ।। ५॥” इति, असद्भूतता चात्र प्रत्येकमेषां, जिनमतप्रतिकुष्टत्वात्, तथाहि- " कालो सहाव नियई, पुवकयं पुरिसकारणेगंता । मिच्छत्तं ते चेव उ, समासओ होति सम्मत्तं ॥ १॥” इति । तथा नास्ति- न विद्यतेऽत्र लोके किञ्चिच्छुभमशुभं वा कृतकं-पुरुषकारनिष्पन्नं, कृतं-च कार्य प्रयोजनमित्यर्थः, पाठान्तरेण- नस्थि किंचि कयकं तत्तं' तत्र तत्त्वं वस्तुस्वरूपमिति, तथा लक्षणानि-वस्तुरूपाणि विधाश्च-भेदा लक्षणविधाः तासां लक्षणविधानाम् नियतिश्च-स्वभावविशेषश्च कारिका-की, सा च पदार्थानामवश्यन्तया यद्यथा भवने प्रयोजयित्री भवितव्यतेत्यर्थः । अन्ये त्वाहुः-यद् मुद्गादीनां राद्धिस्वभावत्वमितरद्वा स स्वभावः यच्च राद्धावपि नियतरसत्वं न शाल्यादिरसता सा नियतिरिति, तत्र चोक्तम्-" न हि भवति यन्नभाव्यं, भवति च भाव्यं विनाऽपि यत्नेन । करतलगतमपि नश्यति, यस्य तु भवितव्यता नास्ति ॥१॥" असत्यता चास्य पूर्ववद्वाच्या, एवमित्युक्तप्रकारेण केचिन्नास्तिकादयो जल्पन्ति-ऋद्धिरससातगौरवपरा ऋद्ध्यादिषु गौरवं-आदरस्तत्प्रधाना इत्यर्थः । इति श्रीप्रश्नव्याकरणद्वितीयाश्रवद्वारवृत्तौ ८६ प्रतौ १६-१७-१८-१९ । पत्रे ॥ १॥
ननु सांसारिककार्यनिमित्तं द्रौपद्यादिभिः पूजितत्वात् संसारनिमित्तमेव प्रतिमा दृश्यन्ते, न तु मुक्तिनिमित्तम्, यदि च मुक्तिनिमित्तं | स्यात्तदा मुनीनामपि कुत्रापि निरवद्यं प्रतिमावन्दनमप्युक्तं स्यात्, अत्रोच्यते-अरे कुमतग्रस्त ! मुनीनामपि अत्यन्तबालादीनां चैत्यान्तानां यथोचितं वैयावृत्त्यं कर्त्तव्यमुक्तम्, तत्र चैत्यस्य तु अन्नादिसंपादनादिकं शरीरविश्रामणादिकं चायौक्तिकमिति वन्दनस्तवनादिकमेव तद्वैयावृत्त्यं, ततो मुनीनामपि चैत्यवन्दनस्तवनमुक्तमेव द्रष्टव्यम्, वैयावृत्त्यसूत्रं चेदम्
1190८॥