________________
विचार- मृषा-अलीकं यदुत एक आत्मा, तदुक्तम्-" एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकथा बहुधा चैव, श्यते जलचंद्रवत् ॥ १॥" कर तथा “पुरुष एवेदं ग्नि सर्वं यद्भूतं यच्च भाव्यम्" इत्यादि, कुदर्शनता चास्य सकललोकविलोक्यमानभेदनिबन्धनव्यवहारोच्छेदप्रसङ्गात्,
तथा अकारकः-सुखदुःखहेतूनां पुण्यपापकर्मणामकर्त्तात्मेत्यन्ये वदन्ति, अमूर्त्तत्वनित्यत्वाभ्यां कर्तृत्वानुपपत्तेरिति, कुदर्शनता चास्य संसार्यात्मनो मूर्त्तत्वेन परिणामित्त्वेन च कर्तृत्वोपपत्तेः, अकर्तृत्वे च अकृताभ्यागमप्रसङ्गात्, तथा वेदकश्च-प्रकृतिजनितस्य सुकृतस्य दुष्कृतस्य च
प्रतिबिंबोदयन्यायेन भोक्ता, अमूर्त्तत्वे हि कदाचिदपि वेदकता न युक्ताऽऽकाशस्येवेति कुदर्शनाताऽस्य तथा सुकृतदुष्कृतस्य, च कर्मणः 1190७॥
करणानि-इन्द्रियाणि कारणानि-हेतवः सर्वथा-सर्वप्रकारैः सर्वत्र देशे काले च न वस्त्वन्तरं कारणमिति भावः, करणान्येकादशः, तत्र वाक्पाणिपादपायूपस्थलक्षणानि पञ्च कर्मेन्द्रियाणि स्पर्शनादीनि तु पञ्च बुद्धीन्द्रियाणि एकादशं च मनः इति, एषां चाचेतनावस्थायामकारकत्त्वात्पुरुषस्यैव कारकत्वेन कुदर्शनत्वमस्य, तथा नित्यश्वासौ, यदाह-“ नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो, न शोषयति (नैनं वहति ) मारुतः ॥१॥ अच्छेद्योऽयमभेद्योऽयममूर्तोऽयं सनातनः" इति, असच्चैतदेकान्तनित्यत्वे हि सुखदुःखबन्धमोक्षाद्यभावप्रसङ्गात्, तथा निष्क्रियः सर्वव्यापित्वेनावकाशाभावाद्गमनागमनादि क्रियावर्जितः, असच्चैतद्देहमानोपलभ्यमानतद्गुणत्वेन तन्नियतत्वात्, तथा निर्गुणश्च सत्वरजस्तमोलक्षणगुणत्रयव्यतिरिक्तत्वात् प्रकृतेरेव ह्येते गुणा इति, यदाह-" अकर्ता
निर्गुणो भोक्ता, आत्मा कपिलदर्शने ।” इति, प्रसिद्धं चास्य सर्वथा निर्गुणत्वं चैतन्यं पुरुषस्य स्वरूपं' इति अभ्युपगमात्, तथा' a अणुवलेवउ' त्ति अनुपलेपकः कर्मबन्धनरहितः, आह च- अस्मान्न बध्यते नापि, मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते
च, नानाश्रया प्रकृतिः ॥१॥” इति, असच्चैतन्मुक्तामुक्तयोरेवमविशेषप्रसङ्गात्, पाठान्तरम्-' अन्नो य लेवउ' त्ति तत्रान्यश्चापरो लेपतः कर्मबन्धनादिति, एतदप्यसत् कथञ्चिदिति शब्दानुपादानात्, इत्यपि च, इति-उपदर्शने अपि च-अलीकवादान्तरसमुच्चयार्थः, तथा एवं वक्ष्यमाणप्रकारेण ' आहेसु' त्ति ब्रुवते स्म असद्भावं-सन्तमर्थं यदुत यदपि-यदेव सामान्यतः सर्वमित्यर्थः, इह-अस्मिन् किञ्चिद्अविवक्षितविशेष जीवलोके-मर्त्यलोके, दृश्यते, सुकृतं वा आस्तिकमतेन सुकृतफलं सुखमित्यर्थः, दुष्कृतं वा दुष्कृतफलं दुःखमित्यर्थः, एतत् ' जइच्छाए व' ति यदृच्छया वा स्वभावेन चापि दैवतप्रभावतो वाऽपि-विधिसामर्थ्यतो वाऽपि भवति, न पुरुषकारः कर्म वा
1190७|