________________
विचार
विचाराः
फुट्ट । फुट्ट दुभागजाय, अब्भं भूमी य संवुत्तं ॥ २ ॥ तत्थ सुरासुरनारगसमणुय सचउप्पयं जगं सव्वं । उप्पण्णं भणियमिणं, |प्रश्नव्याकरणरत्नाकर
बंभंडपुराणसत्थंमि ॥ ३ ॥" तथा स्वयम्भूनिर्मितजगद्वादिनो भणन्ति-" आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अवितर्कामविज्ञेयं, प्रसुप्तमिव सर्वतः ॥ १ ॥ तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे । नष्टामरनरे चैव, प्रणष्टोरगराक्षसे ॥ २ ॥ केवलं गहरीभूते, महाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः ॥ ३ ॥ तत्र तस्य शयानस्य, नाभेः पद्मं विनिर्गतम् । तरुणरविमण्डलनिभं,
हृद्यं काञ्चनकर्णिकम् ॥ ४ ॥ तस्मिन् पद्मे भगवान्, दण्डी यज्ञोपवीतसंयुक्तः । ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सृष्टाः ॥ ५ ॥ अदितिः 1190६| सुरसङ्घानां, दितिरसुराणां मनुर्मनुष्याणाम् । विनता विहङ्गमानां, माता विश्वप्रकाराणाम् ॥ ६॥ कद्रुः सरीसृपाणां, सुलसा माता च
नागजातीनाम् । सुरभिश्चतुष्पदानामिला पुनः सर्वबीजानाम् ॥ ७ ॥” इति । एवमुक्तक्रमेणैतदनन्तरोदितं वस्तु अलीकं भ्रान्तज्ञानिभिः प्ररूपितत्वात्, तथा प्रजापतिना-लोकप्रभुणा ईश्वरेण च-महेश्वरेण च कृतं-विहितमिति केचिद्वादिनो भणन्तीति प्रकृतं, भणन्ति चेश्वरवादिन:बुद्धिमत्कारणपूर्वकं जगत् संस्थानविशेषयुक्तत्वात् घटादिवदिति, कुदर्शनता चास्य वल्मीकबुबुदादिभिर्हेतोरनैकान्तिकत्वात्, कुलालादितुल्यस्य बुद्धिमत्कारणस्य साधनेन चेष्टविघातकारित्वादिति, तथा एवं यथा ईश्वरकृतं तथा विष्णुमयं-विष्ण्वात्मकं कृत्स्नमेव जगदिति केचिद्वदन्तीति प्रकृतं, भणन्ति च एतन्मतावलंबिन:-" जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके । ज्वालामालाकुले विष्णुः, सर्वं विष्णुमयं जगत् ॥ १॥" तथा-" अहं च पृथिवी पार्थ ! वाप्वग्निजलमप्यहम् । वनस्पतिगतश्चाहं, सर्वभूतगतोऽप्यहम् ॥ २॥” तथा " सो किल जलयसमुत्थेणुदएणेगन्नवंमि लोगंमि । वीतीपरंपरेणं घोलंतो उदयमझमि ॥ ३ ॥" स किल मार्कण्डर्षिः “ पेच्छइ सो 9 तसथावरपणदुसुरनरतिरिक्खजोणीयं । एगन्नवं जगमिणं महाभूयविवज्जियं गुहिरं ॥ ४ ॥ एवंविहे जगंमी, पेच्छइ निग्गोहपायवं सहसा । मंदरगिरिं व तुंगं महासमुद्दव विच्छिन्नं ॥ ५ ॥ खंधमि तस्स सयणं, अच्छइ तहिं बालओ मणभिरामो । (विष्णुरित्यर्थः) संविद्धो सुद्धहियओ मिउकोमलकुंचियसुकेसो॥ ६ ॥ हत्थो पसारिओ से, महरिसिणा एहि तत्थ भणिओ य । खंधे ममं विलग्गसु, मा मरिहिसि
उदगवुड्डीए ॥ ७ ॥ तेण य घेत्तुं हत्थे, उ मीलिओ सो रिसि तओ तस्स पिच्छइ उदरंमि जयं ससेलवणकाणणं सव्वं ॥ ८ ॥ " ति, 1190६|| leel पुनः सृष्टिकाले विष्णुना सृष्टम् कुदर्शनता चास्य प्रतीतिबाधितत्वात्, तथा एवं वक्ष्यमाणेन न्यायेन एके-केचनात्माऽद्वैतवाद्यादयो वदन्ति