________________
PROthae
विचार- Jel अह केरिसए पुणाई आराहइ वयमिणं ? जे से उवहिभत्तपाणसंगहणादाणकुसले अच्चंतबाल १ दुब्बल २ गिलाण ३ वुड ४ रत्नाकरः
खवगे ५ पवत्ति ६ आयरिय ७ उवज्झाए ८ सेहे ९ साहम्मिए १० तवस्सी ११ कुल १२ गण १३ संघ १४ चेइयढे १५ निज्जरट्ठी वेयावच्चं अणिस्सियं दसविहं बहुविहं करेइ ॥ इति । वृत्तिर्यथा-अथ-परिप्रश्नार्थे कीदृशः पुनः 'आई' ति अलङ्कारे, आराधयति व्रतमिदम् ? इह प्रश्ने उत्तरमाह-'जे से' इत्यादि, योऽसावुपधिभक्तपानानां दानं सङ्ग्रहणं च तयोः कुशलो-विधिज्ञो यः सः तथा, तथा
बालश्च दुर्बलश्चेत्यादिसमाहारद्वन्द्वस्ततोऽत्यन्तं यद्वालदुर्बलग्लानवृद्धक्षपकं तत्तथा तत्र विषये वैयावृत्त्यं करोतीति योगः, प्रवृत्त्याचार्योपाध्याये 1190९॥ इह द्वन्द्वैकत्वात्प्रवृत्त्यादिषु, तत्र प्रवृत्तिलक्षणं त्विदम्-" तवसंजमजोगेसुं, जो जोगो तत्थ तं पवत्तेइ । असुहं च नियत्तेई, गणतत्तिल्लो
पवित्तीओ॥१॥” इतरौ प्रतीतौ तथा 'सेहे' त्ति शैक्षे-अभिनवप्रवजिते साधर्मिके-समानधर्मिके लिङ्गप्रवचनाभ्यां तपस्विनि-चतुर्थभक्तादिकारिणि, तथा कुलं-गच्छसमुदायरूपं चन्द्रादिकं, गण:-कुलसमुदायरूपः कोटिकादिकः सङ्घः-तत्समुदायरूपः, चैत्यानि-जिनप्रतिमाः एतासां योऽर्थः-प्रयोजनं स तथा, तत्र निर्जरार्थी-कर्मक्षयकामः वैयावृत्त्य-व्यावृत्तकर्मरूपमुपष्टम्भमित्यर्थः, अनिश्रित-कीर्त्यादिनिरपेक्ष दशविधं-दशप्रकारम्, आह च-" वेयावच्चं वावडभावो इह धम्मसाहणनिमित्तं । अन्नाइयाण विहिणा, संपायणमेस भावत्यो ॥१॥ आयरिय १ उवज्झाए २ थेर ३ तवस्सी ४ गिलाण ५ सेहाणं ६ । साहम्मिय ७ कुल ८ गण ९ संघ १० संगयं तमिह कायव्वं ॥ २॥" बहुविधं-भक्तपानादिदानभेदेनानेकप्रकारं करोति । इति प्रश्नव्याकरणाद्वितीयश्रूतस्कन्धतृतीयाध्ययने ८६ प्रतौ ६४ पत्रे ॥२॥
एतेन चतुर्दशोपकरणातिरिक्तमुपकरणं वस्त्रादिकं मुनिभिर्न रक्षणीयमित्यायेकान्तेन यदभिधानं तदयौक्तिकं, उपध्यादिसङ्ग्रहं विना तद्दानस्यानुपपत्तेः, तथा एतेनैव च यद्गीतार्थैरपि भुक्तसंसार एव दीक्षणीयो नाष्टादिवार्षिकः, इत्याद्येकान्तेन यदभिधानं तदप्ययौक्तिकमेव,
अन्यथाऽत्यन्तबालासम्भवे तद्वैयावृत्त्यस्याप्यसम्भवादिति ।। ... ॥इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरिशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे विशेषसमुच्चयापरनाम्नि प्रश्नव्याकरणविचारनामा दशमस्तरङ्गः ॥ १० ॥
कर्कशकुतर्कसङ्करदुर्धरतिमिरौघदिनकराकारम् । विश्वाधारं जिनमतमभिमतदं नौमि गुरुभक्त्या ॥१॥
1190९||
888888