________________
विचार- एवमाहंसु" त्ति वात:-उच्छ्वासादिलक्षणो जीव इत्याहुरेके, सद्भावाभावयोर्जीवनमरणव्यपदेशात् नान्यः परलोकयाय्यात्माऽस्तीति, प्रश्नव्याकरण
logol विचाराः अलीकवादिता चैषां वायोर्जडत्वेन चैतन्यरूपजीवत्वायोगात्, तथा शरीरं सादि उत्पन्नत्वात् सनिधनं क्षयदर्शनात् ' इह भवे एगे भवे' त्ति इह भव एव प्रत्यक्षजन्मैव एको भव:-एकं जन्म नान्यः परलोकोऽस्ति प्रमाणविषयत्वात्, तस्य-शरीरस्य विविधैः प्रकारैः प्रकृष्टो नाशो विप्रणाशस्तस्मिन् सति सर्वनाश इति नात्मा शुभाशुभरूपं वा कर्म विशिष्टमवशिष्यते इति, एतत्-एकमुक्तप्रकारं 'जंपति' जल्पन्ति, के ?
मृषावादिनः, मृषावादिता चैषां जातिस्मरणादिना जीवपरलोकसिद्धेः । तथा किमन्यद्वदन्ति ? इत्याह-यस्मात् शरीरं सादिकमित्यादि 1190४|| तस्माद्दान व्रतपौषधानां-वितरणनियमपर्वोपवासानाम् तथा तपो-अनशनादि संयमः-पृथिव्यादिरक्षा ब्रह्मचर्यं प्रतीतं एतान्येव कल्याणं
कल्यामहेतुत्वात् तदादिर्येषां ज्ञानश्रद्धादीनां तानि तथा तेषां नास्ति फलं-कर्मक्षयसुगतिगमनादिकम्, नापि चास्ति प्राणिवधालीकवचनमशुभफलसाधनतयेति गम्यम्, न चैव-नैव चौर्यकरणं परदारसेवनं वाऽस्त्यशुभफलसाधनतयैव, सह परिग्रहेण यद्वर्त्तते तत्सपरिग्रहं तच्च तत्पापकर्मकरणं च-पातकक्रियासेवनं तदपि नास्ति किञ्चित्क्रोधमानाद्यासेवनरूपम्,नरकादिका च जगतो विचित्रता स्वभावादेव न कर्मजनिता, तदुक्तम्- " कण्टकस्य च तीक्ष्णत्वं, मयूरस्य विचित्रता । वर्णाश्च ताम्रचूडानां, स्वभावेन भवन्ति हि ॥१॥” इति । मृषावादिता चैवमेतेषाम्-स्वभावो हि जीवाद्यर्थान्तरभूतस्तदा प्राणातिपातादिजनितं कर्मैवासौ, अथानान्तरभूतस्ततो जीव एवासौ, तदव्यतिरेकात्तत्स्वरूपवत्, ततो निर्हेतुका नारकादिविचित्रता स्यात्, न च निर्हेतुकं किमपि भवति अतिप्रसङ्गादिति । तथा न नैरयिकतिर्यग्मनुजानां योनि:उत्पत्तिस्थानं, पुण्यपापकर्मफलभूताऽस्तीति प्रकृतम्, न देवलोको वाऽस्तीति पुण्यकर्मफलभूतः नैवाऽस्ति सिद्धिगमनं सिद्धेः सिद्धस्य चाभावात्, अंबापितरावपि न स्त: उत्पत्तिमात्रनिबन्धनत्वात् मातापितृत्वस्य, न चोत्पत्तिमात्रनिबन्धनस्य मातापितृतया विशेषो युक्तः, युतः कुतोऽपि किञ्चिदुत्पद्यते एव, यथा-सचेतनात्सचेतनं यूकामत्कुणादि अचेतनं च मूत्रपुरीषादि, अचेतनाच्च सचेतनं यथा काष्ठाद् घुणकीटकादि अचेतनं च चूर्णादि, तस्माज्जन्यजनकभावमात्रमर्थानामस्ति नान्यो मातापितृपुत्रादिविशेष इति, तदभावात्तद्भोगविनाशापमाननादिषु न दोष
इति भावः, मृषावादिता चैषां वस्त्वन्तरस्य पित्रोश्च जनकत्वे समानेऽपि तयोरत्यन्तहिततया विशेषवत्त्वेन सत्त्वात्, हितत्वं च तयोः ॥१0४|| feel प्रतीतमेव, आह च-“दुःप्रतिकारौ” इत्यादि, नाप्यस्ति पुरुषकारः, तं विनैव नियतितः सर्वप्रयोजनानां सिद्धेः, उच्यते च-" प्राप्तव्यो