________________
|
विचार- शून्यमिति जगदिति गम्यते कथं ? आत्माद्यभावात्, तदेवाह-नास्ति जीवः तत्प्रसाधकप्रमाणाभावात्, स हि न प्रत्यक्षग्राह्योऽतीन्द्रियत्वेन रत्नाकरः। छ
तस्याभ्युपगतत्वात्, नाप्यनुमानग्राह्यः प्रत्यक्षाप्रवृत्तावनुमानस्याप्यप्रवृत्तेः, आगमानां च परस्परतो विरुद्धत्वेनाप्रमाणत्वादिति, असत्त्वादेवासौ न याति-न गच्छति ' इहे ' ति मनुष्यापेक्षया मनुष्यलोके, परे वा परस्मिन् तदपेक्षयैव देवादिलोके, न च किञ्चिदपि स्पृशति बध्नाति पुण्यपापं-शुभाशुभं कर्म, नास्ति फलं सुकृतदुष्कृतानां पुण्यपापकर्मणां जीवासत्वेन तयोरप्यसत्वात्, तथा पञ्चमहाभौतिकं शरीरं भाषन्ते
'हे' इति निपातो वाक्यालङ्कारे वातयोगयुक्तं-प्राणवायुना सर्वक्रियासु प्रवर्त्तितमित्यर्थः । तत्र पञ्चमहाभौतिकमिति महान्ति च तानि 1190311
लोकयव्यापकत्वाद्भूतानि च सद्भूतवस्तूनि महाभूतानि, तानि चामूनि-पृथिवी कठिनारूपा आपो द्रवलक्षणा: तेज उष्णरूपम् वायुश्चलनलक्षण: आकाशं शुषिरलक्षणमिति, एतन्मयमेव शरीरं नापरः शरीरवर्ती तन्निष्पादकोऽस्ति जीवः इति विवक्षा । तथाहि-भूतान्येव सन्ति प्रत्यक्षेण तेषामेव प्रतीयमानत्वात् तदितरस्य तु सर्वथाऽप्रतीयमानत्वात्, यत्तु चैतन्यं भूतेषूपलभ्यते तद्भूतेष्वेव कायाकारपरिणतेष्वभिव्यज्यते मद्याङ्गेषु समुदितेषु मदशक्तिवत्, तथा न भूतेभ्योऽतिरिक्तं चैतन्यं कार्यत्वान्मृदो घटवदिति, ततो भूतानामेव चैतन्याभिव्यक्तिर्जलस्य बुबुदाभिव्यक्तिवदिति, अलीकवादिता चैषामात्मनः सत्त्वात्, सत्त्वं च प्रमाणोपपत्तेः प्रमाणं च सर्वजनप्रतीतं जातिस्मरणाद्यन्यथाऽनुपपत्तिलक्षणॐ मनेकधा शास्त्रान्तरप्रसिद्धमिति । न च भूतधर्मश्चैतन्यं तद्भावेऽपि तस्याभावाद्विवक्षितभूताभावेऽपि प्रेताद्यवस्थायां चैतन्यसद्भावाच्चेति ।
'पंच य खंधे भणंति केई' त्ति पंच च स्कंधान् रूपवेदनाविज्ञानसंज्ञासंस्काराख्यान् भणन्ति केचिदिति-बौद्धाः, तत्र रूपस्कन्धःपृथिवीधा-त्वादयो रूपादयश्च वेदनास्कन्धः पुनः-सुखा दुःखा सुखदुःखेति त्रिविधवेदनास्वभावः, विज्ञानस्कन्धस्तु-रूपादिविज्ञानलक्षणः, संज्ञास्कन्धश्च-संज्ञानिमित्तोद्ग्राहणात्मकः प्रत्ययः, संस्कारस्कन्धः पुनः-पुण्यापुण्यादि धर्मसमुदाय इति, न चैतेभ्यो व्यतिरिक्तः कश्चिदात्माख्यपदार्थोऽध्य-क्षादिभिरवसीयते इति । तथा ' मणं च मणजीविया वदंति' त्ति न केवलं पञ्चैव स्कन्धान् मनश्च-मनस्कारो रूपादिज्ञानलक्षणानामुपा-दानकारणभूतो यमाश्रित्य परलोकोऽभ्युपगम्यते बौद्धैः, मन एव जीवो येषां मते ते मनोजीवाः त एव मनोजीविकाः, अलीकवादिता चैषां सर्वथाऽननुगामिनि मनोमात्ररूपे जीवे कल्पिते परलोकासिद्धेः, तदसिद्धिश्चावस्थितस्यैकस्यात्मनोऽसत्त्वान्मनोमात्रात्मनः क्षणान्तरस्यैवोत्पादात् अकृताभ्यागमादिदोषप्रसङ्गात्, कथञ्चिदनुगामिनि तु मनसि जीवत्वाभ्युपगमः सम्यक् एवेति । तथा-" वाउजीवोत्ति
ကြာမြင့်
1190३||