________________
विचार-
अनुत्तरोपपातिकविचाराः
रत्नाकरः
119001
चोत्तराधर्येण द्वे त्रीणि चत्वारि पञ्च षट् पञ्च चत्वारि त्रीणि द्वे च स्थापनीयानि, अथवा अष्टाभिः षड्भिश्च रेखाभिः पञ्चत्रिंशत्कोष्ठकान् विधाय मध्ये शून्यं कृत्वा शेषेषु चतुस्त्रिंशत्वष्ठानि स्थापनीयानि, एवं चतुस्त्रिंशत्तमादीनि चतुर्थान्तानि, पुनरप्यष्ट षष्ठानि, स्थापना त्वेषां पूर्ववत्, पुनरप्यष्टमषष्ठचतुर्थानीति । प्रथमायां परिपाट्यां सर्वकामगुणितं पारयति, तत्र सर्वे कामगुणा-अभिलषणीया रसादिगुणाः सञ्जाता यस्मिंस्तत्तथा सर्वरसोपेतमित्यर्थः, भोजनमिति गम्यते । पारणकसम-हगाथा-" पढमंमि सव्वकामं, पारणयं बीयते विगइवज्जं । तइयंमि अलेवाडं, आयंबिलमो चउत्थंमि ॥ १॥" पारणक इति गम्यते, वाचनान्तरे-“ पढमंमि सव्वगुणिए पारणकं” इति दृश्यते ।
॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरिशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे विशेषसमुच्चयापरनाम्नि अन्तगडविचारनामाऽष्टमस्तरङ्गः ॥८॥
अतीतानागता भावा, वर्तमान इव स्फुटम् । यत्प्रभावात्प्रतीयन्ते, तां जिनेशगिरं स्तुमः ।। १॥
अथानुत्तरोपपातिकाड़े चतुर्दशसहस्रप्रमितेषु साधुषु महादुष्करकारितया महानिर्जरतया भगवता श्रीवीरेण स्वयं व्यावर्णितस्यात एव चमत्कारिचरित्रस्य धन्यकस्य स्वरूपं किञ्चिल्लिख्यते
“तेणं कालेणं तेणं समएणं रायगिहे णगरे गुणसिलए चेतिए सेणिए राया, तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे परिसा णिग्गया, सेणिए णिग्गते, धम्मकहा सोच्चा परिसा पडिगता । तते णं से सेणिए राया समणस्स० अंतिए धम्म सोच्चा णिसम्म समणं भगवं महावीरं वंदति णमंसति २ एवं वदासी-इमासि णं भंते ! इंद्दभूतिपामोक्खाणं चोद्दसन्हं समणसाहस्सीणं कतरे अणगारे महादुक्करतराए चेव महानिज्जरतराए चेव ? एवं खलु सेणिया ! इमासिं इंदभूतिपामोक्खाणं चोद्दसन्हं समणसाहस्सीणं धण्णे अणगारे महादुक्करकारए चेव माहाणिज्जरतराए चेव । से केणटेणं भंते ! एवं वुच्चति इमासिं जाव साहस्सीणं धण्णे अणगारे महादुक्करकारए महाणिज्जरतराए ? एवं खलु सेणिया ! तेणं कालेणं तेणं समएणं काकंदीणाम णयरी होत्था उप्पि पासायवडिंसए विहरति । तते णं अहं अण्णदा कदाइ पुव्वाणुपुवीए चरमाणे गामाणुगामं दूइञ्जमाणे जेणेव काकंदी नगरी जेणेव सहसंबवणे उज्जाणे तेणेव उवागए अहापडिरूवं उग्गहं उ० २ संजमेणं जाव विहरामि, परिसा णिग्गता तहेव जाव पव्वइते जाव बिलमिव जाव आहारेति,
1900।