________________
रत्नाकरः
विचार- 888 गोयमा ! अड्डाइज्जाई पलिओवमाई ठिती पन्नत्ता । काली णं भंते! देवी ताओ देवलोगाओ अनंतरं उवट्टित्ता कहिं गच्छिहिति ? गोयमा ! महाविदेहे वासे सिज्झिहिति । एवं खलु जंबू ! समणेणं जाव संपत्तेणं पढमस्स वग्गस्स पढमज्झयणस्स अयमठ्ठे पन्नत्ते । वृत्तिस्तु सुगमत्वादस्य नास्ति । इति श्रीज्ञाताद्वितीयश्रुतस्कन्धप्रथमाध्ययनप्रान्ते १७२ प्रतौ १७० पत्रे ॥ ७ ॥ श्रीमद्कब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलश्रीजगद्गुरुभट्टारकध्यायश्रीकीर्त्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे विशेषसमुच्चयापरनाम्नि श्रीज्ञाताधर्मकथाङ्गविचारनामाषष्ठस्तरङ्गः ।। ६ ।। काष्ठोपमानि परमतहृदयान्यपि युक्तिसमीरलहरीभिः । सुरभयति य इह तस्मै, जैनागमचन्दनाय नमः ॥ १ ॥ अथ परिपाट्यायाताः श्रीउपासकदशाङ्गविचारा लिख्यन्ते
।। इति
श्रीहीरविजयसूरीशिष्योपा
ननु नास्त्येव प्रतिमावन्दनविधिः यदि स्यात्तदा भगवतः श्रीवीरस्येयन्तः श्रावका अभूवन् तेषु केन प्रतिमा नमस्कृतेति सिद्धान्ते दर्शनीयं इति प्रतिमाद्विषो वदन्ति, तच्च जडजनानां हृदयङ्गमं न विदुषाम् । यत आनन्देन सुश्रावकेन सम्यक्त्वोच्चारसमये अन्यतीर्थिकपरिगृहीतार्ह - च्चैत्यवन्दननिषेधनद्वारेणान्यार्हच्चैत्यवन्दनस्य सुतरां स्वीकृतत्वात् । ननु निषेधसूत्रेऽर्हच्चैत्यवन्दनं यथा प्रतिपादितं तथा विधिसूत्रे कुतो नोक्तम् ? किं च यदि अन्यतीर्थिकपरिगृहीतार्हच्चैत्यवन्दनं निषिद्धं तर्हि अन्यतीर्थिकापरिगृहीतार्हच्चैत्यवन्दनमनुक्तमपि कथमापतितम् ? इति चेत् ? अरे अदृष्टन्यायमार्ग ! मैवं वादी शृणु तावत् विशेषविधिनिषेधौ हि शेषनिषेधाभ्यनुज्ञाफलौ यथा- ब्राह्मणेभ्यो दधि देयं, तक्र कौडिन्याय । अत्र कौडिन्यगोत्राय ब्राह्मणाय तक्रं देयम्, अयं हि विशेषविधिः, तेन च शेषाणां ब्राह्मणानां तक्रनिषेधः स्पष्टमेव प्रतीयते । तथा ब्राह्मण भोजनीया: कौण्डिन्याय च तक्रं न देयम्, इत्यत्र विशेषनिषेधे शेषाणां ब्राह्मणानां तक्रं देयम्, इत्यभ्यनुज्ञा प्रतीयत एव । तथा चात्रापि अन्यतीर्थिकपरिगृहीतार्हच्चैत्यवन्दननिषेधलक्षणेन विशेषनिषेधेन शेषार्हच्चैत्यवन्दनानुज्ञा सुप्रतीतैव । किञ्च मूलतो निषिद्धे देशो निषेधोऽप्ययौक्तिक एव प्राणातिपातादिवत् । अर्हच्चैत्यशब्देन यत्साधुवृक्षनगाद्यर्थान्तरकल्पनं तत्तु शाब्दिकैस्तार्किकैः सहृदयैः श्रोतुमप्यशक्यमित्यपकर्णनीयम् । तत्सूत्रञ्चेदम्
समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमसित्ता एवं वयावी-नो खलु मे भंते ! कप्पइ अज्जप्पभिई अन्नउत्थिए वा
॥९३॥
88888888888
119311