________________
नवतत्त्व
तत्र भागद्वारमाह-सर्वजीवानामनन्ततमे भागे सर्वेऽपि सिद्धा वर्तन्ते, भागद्वारं सप्तमं ।
अथ भावद्वारमाह-तेषां सिद्धानां तेषु सिद्धेषु वा केवलज्ञानं केवलदर्शनं च क्षायिके भावे वर्तते, पुनः क्षयाभावेन शाश्वतत्वात् च । पुनः तेषां सिद्धानां जीवत्वं पारिणामिके भावे वर्तते इति भावद्वारं ८ ॥४२॥ अथाल्पबहुत्वद्वारं गाथयाऽऽह
थोवा नपुंससिद्धा थीनरसिद्धा कमेण संखगुणा ।
इय मुक्खतत्तमेअं नवतत्ता लेसओ भणिया ॥४३॥ मोक्षगमनभवे ये नपुंसकत्वमनुभूय सिद्धास्ते स्तोकाः ।
ननु जन्मनपुंसकानां चारित्रमपि न भवति कुतो मोक्षगमनं ? उच्यते-एते जन्मनपुंसका न किन्तु ये पश्चाद्वद्धितादिकरणेन 3, जीवविवार कृतास्ते ज्ञेयाः १ तेभ्यो नपुंसकेभ्यो ये स्त्रीवेदमनुभूय सिद्धास्ते संख्यातगुणा ज्ञेयाः २ तेभ्यः स्त्रीवेदसिद्धेभ्यो ये पुरुषवेदमनुभूय २ प्रकरण- | सिद्धास्ते संख्यातगुणा ज्ञेयाः ३ । इत्यल्पबहुत्वद्वारं समाप्तं नवमं ९ । इत्यनेन ग्रन्थेन नवापि मोक्षतत्त्वस्य भेदा चतुष्टयम्
व्याख्याता इति मोक्षतत्त्वं ज्ञेयं ९ । मोक्षतत्त्वभणनेन च नवतत्त्वानि लेशतो भणितानि ॥४४॥ अथ नवतत्त्वानां परिज्ञाने||८२॥ फलमाह -
www6W60-60-60dridroid