________________
नवतत्त्व
नरगइपणिदितसभव सन्नि अहक्खाय खइअ सम्मत्ते ।
मक्खोऽणाहारकेवलदंसणनाणे न सेसेसु ॥३९॥ गतिश्चतुर्धा-मनुष्यगतिः १ तिर्यग्गतिः २ देवगतिः ३ नरकगतिश्च ४ तत्र मनुष्यगतावेव जीवानां मोक्षो भवति न १ शेषगतित्रये १।
इन्द्रियमार्गणायां जीवाः पञ्चधा सन्ति-एकेन्द्रियाः १ द्वीन्द्रियाः २ त्रीन्द्रियाः ३ चतुरिन्द्रियाः ४ पञ्चेन्द्रियाश्च ५ तत्र पञ्चेन्द्रिया एव मोक्षं यान्ति न पुनरेकेन्द्रियादिकाश्चत्वारः २ ।
कायमार्गणायां कायाः षट्-पृथिवीकायः १ अप्कायः २ तेजस्कायः ३ वायुकायः ४ वनस्पतिकायः ५ त्रसकायश्च ६ जीवविचारादि-तत्र त्रसकाये स्थिता जीवा मोक्षं यान्ति न पुनः स्थावरकाये पृथिव्यादिपञ्चके ३ ।। प्रकरणचतुष्टयम्
भवसिद्धिमार्गणायां जीवा द्वेधा-भव्या अभव्याश्च, तत्र भवे सिद्धिर्येषां ते भव्यास्तेभ्यो विपरीता अभव्यास्तत्र भव्या 31 एव मोक्षं यान्ति नाभव्याः ४ ।
संज्ञिमार्गणायां जीवा द्वेधा-संज्ञिनो येषां मनः संज्ञा विद्यतेऽसंज्ञिनो मनोरहिताः, तत्र संज्ञिन एव मोक्षं यान्ति नाऽसंज्ञिनः ५
60606060606006
وووووووووم
606