________________
नवतत्त्व
सत्पदप्ररूपणा १ द्रव्यप्रमाणं २ क्षेत्रप्रमाणं ३ स्पर्शना ४ कालः ५ अन्तरं ६ भागः ७ भाव ८ अल्पबहुत्वं च ॥३७।। अथ प्रथमभेदस्य सत्पदप्ररूपणारूपस्य स्वरूपं प्ररूपयति -
संतं सद्धपयत्ता विज्जंतं खकुसुमव्व न असंतं ।
मुक्खत्ति पयं तस्स उ परूवणा मग्गणाईहिं ॥३८॥ मोक्ष इति पदं सत् विद्यमानं कस्मात् शुद्धपदत्वादसंयुक्तपदत्वादेकपदत्वादित्यर्थः, आकाशकुसुमवत् असंत-अविद्यमानं ६ न । अयम्भाव:- समस्तलोके यस्य यस्य पदार्थस्यैकपदं नाम भवति स पदार्थोऽस्त्येव यथा घटपटलकुटादिरेवं मोक्षस्यापि
मोक्ष इत्येकपदं नामातः कारणात् मोक्षोऽस्त्येव न पुनराकाशकुसुमवन्नास्ति यत आकाशकुसुमस्यैकपदनाम नास्ति किन्तु जीवविचारादि- द्विपदं नामाऽस्ति । यद्यद् वस्तु द्विपदनामवाच्यं भवति तत्तदेकान्तेन विद्यमानं न भवति किन्तु किञ्चिद् गोशृंगमहिषशृंगादिवत् प्रकरणचतुष्टयम्
विद्यमानमस्ति किंचित् पुनः खरशृंगतुरंगमशृंगाकाशकुसुमादिवदविद्यमानं ततो मोक्ष इति पदमेकपदत्वादस्त्येवेत्यनुमानप्रमाणेन मोक्षसत्ता स्थापिता ॥३८॥ अथ तस्य मोक्षस्य सत्पदरूपस्य गत्यादिमार्गणाद्वारेण प्ररूपणा क्रियते, तथाहि -
6d6d6d6d6d6d6d 60606
గలిగసాగసాందసాగగపోగపొగడుగం
७६॥