________________
जीवविचारादिप्रकरण
चतुष्टयम्
चारित्रमार्गणायां चारित्राणि पञ्च, तत्र यथाख्यातचारित्रे पञ्चमभेदे वर्तमानानां जीवानां मोक्षो भवति न सामायिकादिशेषचारित्रचतुष्के
६ ।
सम्यक्त्वं पञ्चधा वर्तते, तथाहि - औपशमिकं १ सास्वादनं २ क्षायोपशमिकं ३ वेदकं ४ क्षायिकं च तेषां प्राप्तिश्चैवंतत्रौपशमिकसम्यक्त्वस्य प्राप्तिरेवं ज्ञानावरणीय दर्शनावरणीय - वेदनीयान्तरायकर्मणां चतुर्णां त्रिंशत्कोटीकोटीसागरोपमस्थिति| प्रमाणानामेकोनत्रिंशत्कोटाकोटीसागरोपमस्थितिक्षये, मोहनीयकर्मणश्च सप्ततिकोटीकोटीसागरोपमस्थितिप्रमाणस्यैकोनसप्ततिकोटीकोटीसागरोपमस्थितिक्षये नामगोत्रकर्मणोविंशतिकोटीकोटीसागरोपम-स्थितिप्रमाणयोरेकोनविंशतिकोटीकोटीसागरोपमस्थितिक्षये सत्येवं सप्तानामपि कर्मणामेकैककोटीकोटीसागरोपमस्थितिमध्ये स्थितानां यथाप्रवृत्तिकरणेनाऽध्यवसायरूपेण जीवों निबिडरागद्वेषपरिमाणरूपां सुदुर्भेदां कर्मग्रन्थि प्राप्नोति, ततोऽपूर्वकरणेनाऽध्यवसायरूपेण कर्मग्रन्थि भित्त्वा प्रतिसमयं प्रतिसमयमनन्तविशुद्धया विशुद्धयमानो जीवस्तत्रान्तरकरणेन मिथ्यात्वस्यैककोटीकोटीसागरोपमस्थितिप्रमाणस्य स्थितिद्वयं करोति, तत्र प्रथमा स्थितिरान्तर्मुहूर्तिकी द्वितीया शेषास्थितिस्तदूना, प्रथमस्थितौ प्रतिसमयं मिथ्यात्वपुद्गलाननुभवन् क्षीणायां सत्यामन्तरकरणस्याद्यसमयेनैवौपशमिकं सम्यक्त्वं लभते तत्सम्यक्त्वमपौद्गलिकमन्तर्मुहूर्तकालं यावद्भवति १ ।
नवतत्त्व
॥७८॥