SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ जीवविचारादि प्रकरण चतुष्टयम् ३ एकाक्येव जीव आगच्छत्येकाक्येव च याति परभवमेकाक्येव कर्माणि शुभान्यशुभानि चोपार्जयति भुङ्क्ते चेति चिन्तनमेकत्वभावना ४ जीवानां देहोऽपि पृथग्भूतो वर्तते ततः पुत्रकलत्रधनादिपदार्था विशेषतः पृथग्भूतास्ततः परमार्थवृत्त्या | नान्यः कोऽपि कस्यापि सम्बन्धी वर्तते इति चिन्तनमन्यत्वभावना ५ देहस्य सप्तधातुमयस्य नवश्रोतांसि नारीजनापेक्षया स्तनद्वयसद्भावेनैकादश श्रोतांसि निरन्तरं वहन्ति मलमूत्र श्लेष्मादीनि महाबीभत्सानि सहचारीणि सन्ति अशुचित्वं न किमपि | शुचित्वमिति चिंतनमशौचभावना ६ मनोवाक्काययोगैः शुभाशुभकर्मार्जनमाश्रवः ७ मिथ्यात्वादीनां बन्धहेतुभूतानां संवरणस्योपायाः सम्यक्त्वादयो वर्तन्ते इति चिन्तनं संवरभावना ८ निर्जरा-कर्मनिर्जरणं सा द्वेधा - सकामनिर्जरा १ अकामनिर्जरा २ च सकामनिर्जरा साधूनामकामाऽज्ञानिजीवानां, तत्र सकामा द्वादशप्रकारतपोभिः कर्मक्षयरूपा, अकामा पुनः तिर्यगादिजीवानां तृषा- बुभुक्षा-छेदन-भेदन - ताडन - तर्जन- भारोद्वहनादिना कष्टसहनेन यः कर्मक्षयस्तद्रूपा इति चिन्तनं निर्जराभावना ९ ॥२८॥ चतुर्दशरज्ज्वात्मको लोकः कटिसंस्थापितकरेण तिर्यक्प्रसारितपादेन पुरुषाकारेण सदृशो वर्तते | पुनर्धर्माधर्माकाशास्तिकायकालपुद्गलजीवरूपैः षड्भिर्द्रव्यैः परिपूर्णो वर्तत इति चिन्तनं लोकस्वभावभावना १० अनंतानंतकालेन दुर्लभा मनुष्यभवादिसामग्री, तस्याः प्राप्तावपि दुर्लभा बोधिर्जिनधर्मप्राप्तिरितिचिन्तनं बोधिभावना ११ संसारसमुद्रतारणे नवतत्त्व ॥६९॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy