________________
जीवविचारादि
प्रकरण
चतुष्टयम्
२-वाचनापृच्छनादिषु मुखवस्त्रिकाच्छादितमुखस्य भाषमाणस्यापि वाग्नियन्त्रणं च ।
ननु वचनगुप्ति - भाषासमित्योः परस्परं को भेदः ? उच्यते - वचनगुप्तिः सर्वथा वचननिरोधरूपा, निरवद्य-सम्यक् - वचनभाषणरूपा च द्वेधा । भाषासमितिः पुनः सम्यग्वचनप्रवृत्तिरूपैकभेदैव, ७ कायगुसिद्वैधा - १ उपसर्गादिसद्भावे कायोत्सर्गादचलनं, २ - केवलिनां योगनिरोधावस्थायां सर्वथा शरीरचेष्टापरिहारश्च ८ इति गुप्तित्रयम् ||२४|| अथ द्वाविंशतिपरीषहानाह
—
खुहापिवासासिउन्हं दंसाचेलारइत्थिओ |
चरिआ निसीहिया सिज्जा अक्कोस वह जायणा ॥ २५ ॥
अलाभरोगतणफासा मलसक्कारपरीसहा ।
पन्ना अन्नाण सम्मत्तं इअ बावीस परीसहा ॥२६॥
क्षुधापरीषहः-निरवद्याहारालाभे क्षुधा सहनीया न पुनः सावद्याहारग्रहणं कार्यमित्येवंरूपः १ । पिपासापरीषहः - तृषा
नवतत्त्व
॥६५॥