________________
6006
स्यात् २० नवतत्त्व
Honoronsorbondonsion606dra
तत् साधारणनामकर्म ४ येन जीवानामोष्ठजिह्वादंतादयोऽवयवाऽस्थिरा भवन्ति तदस्थिरनामकर्म ५ येन नाभेरधः शरीरमशुभं स्यात् तदशुभनामकर्म ६ येन जीवा दौर्भाग्यवन्तो भवन्ति तद् दुर्भगनामकर्म ७ दुःस्वरनामकर्म-येन जीवानां स्वरः | कर्णकटुरमनोज्ञश्च स्यात् ८ येन जीवानां वचनं न केनाऽपि मन्यते तदनादेयनामकर्म ९ येन जीवानामयशोऽकीर्तिश्च स्यात् | तदयशोनामकर्म १० इति पापतत्त्वस्य द्वयशीतिभेदाः, इति पापतत्त्वं ४ ॥१९॥ अथाऽऽश्रवतत्त्वस्य पञ्चमस्य द्विचत्वारिंशद्भेदानाह गाथाचतुष्टयेन -
इंदियकसायअव्वय, जोगा पंच चउ पंच तिन्नि कमा । किरियाओ पणवीसं इमा उ ताओ अणुक्कमसो ॥२०॥ काइअ अहिगरणीया पाउसिया पारितावणी किरिया । पाणाइवायरंभिअ परिग्गहिया मायवत्तीया ॥२१॥
जीवविचारादिप्रकरणचतुष्टयम्
1६०॥