SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ जीवविचारादि प्रकरण चतुष्टयम् पञ्चविंशतिः कषायास्तत्र क्रोध १ मान २ माया ३ लोभ ४ रूपाश्चत्वारः कषायास्ते च प्रत्येकमनन्तानुबन्धि १ अप्रत्याख्यानिक २ प्रत्याख्यानिक ३ सञ्ज्वलन ४ भेदैः षोडश भवन्ति तेषां स्वरूपं चेदं तत्रानंतानुबन्धिनः आजन्माऽवधिभाविनो नरकगतिदायिनः सम्यक्त्वघातिनः पर्वतरेखासमानाश्च १ । अप्रत्याख्यानिका वर्षपर्यन्तभाविनस्तिर्यग्गतिदायिनो | देशविरतिघातिनश्च २ । प्रत्याख्यानिका मासचतुष्टयमनुष्यगतिदायिनः साधुधर्मघातिनश्च ३ । सञ्ज्वलनाः पुनः पक्षावधयो देवगतिदायिनः केवलज्ञानघातिनश्च ४ । नवनोकषायाः ते चामी -हास्यरत्यरतिभयशोकजुगुप्सापुरुषवेदस्त्रीवेदनपुंसकवेदरूपास्तेषां स्वरूपं चेदं येन कर्मणा सनिमित्तं निर्निमित्तं वा जीवानां हास्यमायाति तद् हास्यमोहनीयं १ येन मनोहरेषु शब्दरूपादिषु रागः स्यात् तद् रतिमोहनीयं २ | येनामनोहरेषु शब्दरूपादिषु विरागः स्यात् तदरतिमोहनीयं ३ येन जीवानां नानाविधनिमित्तैर्भयमुत्पद्यते तद् भयमोहनीयं ४ येनाभीष्टवियोगे दुःखं ध्रियते तच्छोकमोहनीयं ५ येन बीभत्सवस्तुदर्शने निंदा क्रियते तज्जुगुप्सामोहनीयं ५ येन स्त्रियं | प्रत्यभिलाषः स्यात् स पुंवेदस्तृणदाहसमः ७ स्त्रीवेदः करीषदाहसमः ८ नपुंसकवेदो नगरदाहसमः ९ एवं षोडशकषायैः | नवनोकषायैश्च कृत्वा कषायाः पञ्चविंशतिर्जाताः । पूर्वोक्त ३५ मीलने जाताः षष्टिः ६० तथा 'तिरिअदुगं' तिर्यग्गति: ६१ नवतत्त्व ॥५७॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy