________________
जीवविचारादि
प्रकरणचतुष्टयम्
ननु श्री भगवत्यादिसिद्धान्तेषु देवानां पञ्च एव पर्याप्तयः कथं प्रतिपादिता: ? उच्यते तत्र भाषामनःपर्याप्त्योरुत्पत्तेः समये जायमानत्वादेकत्वेन विवक्षाकरणान्न दोषः ||६|| अथ कतिप्राणाः ? ते प्राणाः केषु जीवेषु कति लभ्यन्ते तदाह - पणिदिअत्तिबलुसा साउ-दस पाणचउ छ सगं अट्ठ । इग-दु-ति-चतुरिंदिणं, असन्नि सन्नीण नव दस य ॥७॥
जीवानां प्राणा दशधा-दशप्रकारा भवन्ति । ते के इत्याह-पञ्च, स्पर्शन - १ रसन- २ घ्राण - ३ चक्षुः - ४ श्रोत्र - ५ | रुपाणीन्द्रियाणि, श्वासोच्छ्वासः - ६ आयुः - ७ मनोबलं - ८ वचनबलं - ९ कायबलं - १० चैते दश प्राणाः । तत्रैकेन्द्रियेषु | स्पर्शनेन्द्रिय:- १ श्वासोच्छ्वासः - २ आयुः - ३ कायबलं - ४ चैते चत्वारः प्राणा लभ्यन्ते ।
विकलेन्द्रियेषु द्वित्रिचतुरिन्द्रियेष्वनुक्रमेण षट्सप्ताष्टौ च लभ्यन्ते । अयमर्थः - त एव पूर्वोक्ताश्चत्वारः प्राणा रसनेन्द्रियवचनबलसहिताः षट् द्वीन्द्रियेषु भवन्ति । एते एव षट् घ्राणेन्द्रियसहिताः सप्त त्रीन्द्रियेषु भवन्ति । एते एव सप्त चक्षुरिन्द्रियसहिता अष्टौ चतुरिन्द्रियेषु भवन्ति ||७||
नवतत्त्व
॥४४॥