________________
जीवविचारादि
प्रकरण
चतुष्टयम्
आहारसरीरिंदियपज्जत्ती आणपाणभासमणे । चउपंचपंचछप्पिय इगविगलासन्निसन्नीणं ॥६॥
आहारपर्याप्तिः १ शरीरपर्याप्तिः २ इन्द्रियपर्याप्तिः ३ आणपाणत्ति - श्वासोच्छ्वासपर्याप्तिः ४ भाषापर्याप्तिः ५ मनःपर्याप्तिश्च ६ । ननु पर्याप्तिः किमुच्यते ? पर्याप्तिर्जीवस्य कोऽपि शक्तिविशेषः, येनोत्पत्तिस्थानेऽन्तर्मुहूर्तमध्ये जीवः पुद्गलानाहारादितया परिणमयति ।
अथ तृतीयपदस्य चतुर्थपदेन समं योजना कर्तव्या । कथमित्याह - एकेन्द्रियेषु आहारपर्याप्तिः १, शरीरपर्याप्तिः २, इन्द्रियपर्याप्तिः ३, श्वासोच्छ्वासपर्याप्तिश्च ४, ताश्चतस्रः पर्याप्तयो लभ्यन्ते । विकलेषु द्वित्रिचतुरिन्द्रियेष्वसंज्ञिषु संज्ञिषु चानुक्रमेण पञ्च पञ्च षट् च ज्ञेयाः । अर्थात्ता एव पूर्वोक्ताश्चतस्रः भाषासहिताः पञ्चपर्याप्तयोः विकलेन्द्रियेषु लभ्यन्ते एवं ता एव | पर्याप्तयोऽसंज्ञिषु संमूच्छिममनुष्यादिषु लभ्यन्ते, कथं ? तेषां मनोरहितत्वात् । ता एव पञ्चपर्याप्तयो मनः- पर्याप्तिसहिताः | षडपि संज्ञिषु मनुष्यदेवतानारकतिर्यक्षु लभ्यन्ते तेषां मनःसंज्ञासहितत्वात् ।
नवतत्त्व
॥४३॥