SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ जीवविचारादि प्रकरण चतुष्टयम् स्यात् १ । पुनर्दर्शनस्य नवभेदाः सन्ति तन्मध्येऽचक्षुर्दर्शनरूपं निद्रारूपं च दर्शनमपि वर्तत एव २ पुनश्च चारित्रमपि कर्मग्रन्थाभिप्रायेणाविरतिरूपं वर्तते ३ । तपोऽपि कायक्लेशादिरूपं वर्तते ४ । वीर्यमपि कायवीर्यं वर्तते स्वकायस्य विद्यमानत्वात् ५ । उपयोगा द्वादश वर्तन्ते, पञ्चज्ञानानि त्रीण्यज्ञानानि चत्वारि चक्षुर्दर्शनादीनि दर्शनानि । तन्मध्ये तेष्वज्ञानमचक्षुर्दर्शनं चैतद् द्वयं तु वर्तत एव तत्रैकेन्द्रियादिषु पञ्चेन्द्रियान्तेषु सर्वेष्वपि जीवेष्वेतत्षकरूपं लक्षणं लभ्यत एव । अत्र केचित् प्रतिपादयन्ति - एतत्षड्कं न सर्वजीवेषु किन्तु पृथक् पृथक्जीवभेदेषु लक्षणं ज्ञानादिकं लभ्यते न ते सिद्धान्तमर्मज्ञा न ते गीतार्थगुरुचरणसेविनश्च ॥५॥ अथ कस्मिन् जीवे कतिपर्याप्तयः लभ्यन्ते तदाह - नवतत्त्व ॥४२॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy