SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ जीवविचारादि प्रकरणचतुष्टयम् तथाऽसंज्ञिपञ्चेन्द्रियेषु संमूच्छिममनुष्यादिषु पूर्वोक्ता एवाष्टौ श्रोत्रेन्द्रियसहिता नव भवन्ति । तथा संज्ञिषु मनुष्यादिषु मनः सहिता दश प्राणा भवन्ति ते बोद्धव्याः - ज्ञातव्याः । अथ मरणं किमुच्यते इत्याह - तैस्तैः स्वकैः प्राणैः समं विप्रयोगः छुटनं मरणमिति जीवानां भण्यते परं शाश्वतो जीवो न म्रियते तस्यामरत्वात्, नित्यत्वात्, अजीवत् जीवति जीविष्यतीति जीव इति व्युत्पत्तिसद्भावाच्च । इत्यष्टगाथाभिः कृत्वा जीवतत्त्वं निरुपितम् १ ॥७॥ अथाजीवतत्त्वस्य चतुर्दशभेदानाह - धम्माऽधम्मागासा तियतिय भेया तहेव अद्धा य । खंधा देसपएसा परमाणु अजीव चउदसहा ॥८॥ धर्मास्तिकायः, अधर्मास्तिकायः आकाशास्तिकायः एते त्रयोऽपि तियतियभेया- त्रिकत्रिकभेदाः । कथमित्याहधर्मास्तिकायस्कन्धः १ धर्मास्तिकायदेशः २ धर्मास्तिकायप्रदेश: ३ एवमधर्मास्तिकायस्कन्धः ४ अधर्मास्तिकायदेशः ५ नवतत्त्व ॥४५॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy