________________
जीवविचारादिप्रकरण
चतुष्टयम्
एगविहदुविहतिविहा चउव्विहा पंचछव्विहा जीवा । चेयणतसइयरेहिं वेयगइकरणकाएहिं ॥३॥
प्रथमद्वितीयपदाभ्यां कृत्वा तृतीयचतुर्थपदयोरर्थयोजना कर्तव्या । सा चैवं चेअणत्ति - चेतनालक्षणो जीवः इति जीवस्य लक्षणं क्रियते तदैक एव जीवस्य भेदः । यतः सूक्ष्मनिगोदजीवेष्वपि श्रीप्रज्ञापनादिसूत्रेष्वक्षरस्यानंततमो भागः प्रतिपादितोऽस्ति १ । द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियजीवाः त्रसाः । इयरित्ति इतरे अपरे पृथिव्यप्तेजोवायुवनस्पतिजीवा एकेन्द्रिया इति विवक्षया जीवा द्विविधाः २ ।
'केचित्पुरुषवेदाः केचित्स्त्रीवेदाः केचिन्नपुंसकवेदाः तत्र देवाः पुरुषवेदाः स्त्रीवेदाश्च । मनुष्याः पञ्चेन्द्रियतिर्यञ्चश्च केचित् पुरुषवेदाः केचित् स्त्रीवेदाः केचिन्नपुंसकवेदाश्च । तेभ्यः शेषाः पृथिव्यप्तेजोवायुवनस्पतिद्वींद्रियत्रीन्द्रियचतुरिंद्रियनारका नपुंसका एवं विवक्षया त्रिविधा जीवाः ३ ।
I
गतिमाश्रित्य चतुर्विधा जीवाः केचिन्मनुष्यगतिगताः १ केचिद्देवगतिगताः २ केचिन्नरकगतिगताः ३ केचित्तिर्यग्गतिगताः
नवतत्त्व
॥३९॥