SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ जीवविचार जिनोक्ततत्वरुचिरूपे सम्प्राप्ते सति श्री शान्तिसूरिशिष्टे धर्मे उद्यमं कुरुत । यूयमिति शेषः । श्रीः ज्ञानादिलक्ष्मीः शान्तिः | रागाद्युपशमः ताभ्यां सूरयः पूज्याः तीर्थकरा गणधरा वा तैः शिष्टे उपदिष्टे इत्यर्थः । अनेन स्वनामापि सूचितम् । तथाहि-३ श्रीशान्तिसूरिरुपदिशति शिष्टे शिष्टपुरुषाचीर्णे धर्मे उद्यमं कुरुतेत्यन्वयः । यद्वा श्रीशान्तिसूरिणा शिष्टे भगवद्वचनानुसारेणोपदिष्टे Bधर्मे इति वाच्यम् ॥५०॥ अथ प्रस्तुतसूत्रं निगमयन्नाह - एसो जीववियारो संखेवरूईण जाणणा हेउ । संखित्तो ऊद्धरिओ रुद्दाओ सुयसमुद्दाओ ॥५१॥ साक्षादुक्तो जीवानां विचारः संक्षेपरुचीनां स्वल्पमतीनां मनुष्याणां ज्ञापनाहेतु ज्ञापननिमित्तं, रुन्द्रात् अनवगाह्यविस्तारात् जीवविचारादि श्रुतसमुद्रात् संक्षिप्त उघृत संक्षेपेणोद्धृत निबद्ध इत्यर्थः । एतेन न स्वमनीषया कल्पित इति सूचितम् ॥५१॥ प्रकरणचतुष्टयम् इति जीवविचारलघुवृत्तिः ॥ 06/0460606woo6d6006d6d6dmi 606 66666606061 ॥३४॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy