________________
जीवविचारादि
प्रकरणचतुष्टयम्
काले अणाइनिहणे जोणीगहणंमि भीसणे इत्थ ।
भमिया भमिर्हिति चिरं, जीवा जिणवयणमलहंता ॥४९॥
आदिः प्रारम्भः निधनं नाशः आदिश्च निधनं चादिनिधने ते न विद्येते यस्य स अनादिनिधनस्तस्मिन् अनाद्यनन्ते काले जिनवचनं हितोपदेशरूपं अलभमाना अप्राप्नुवन्तः जीवाः योनिभिश्चतुरशीतिलक्षसंख्याभिर्गहने अतिसंकुले अत एव भीषणे भयंकरेऽत्रास्मिन् संसारे भ्रान्ता अतीतकाले पर्यटनं कृतवन्तः पुनश्चिरं बहुकालं भ्रमिष्यन्त्यागामिकालेऽपि | पर्यटिष्यन्तीत्यर्थः । वर्तमानकालस्यैकसामयिकत्वेनाल्पत्वान्नात्र विवक्षा कृतेति ॥ ४९ ॥ अथ ग्रन्थकारः स्वनाम सूचयन् धर्मोपदेशमाह
तत्तस्माद्
-
ता संपइ संपत्ते मणुअत्ते दुल्हे वि सम्मत्ते ।
सिरिसंतिसूरिसिट्टे करेह भो उज्जमं धम्मे ॥५०॥
भो भव्याः सम्प्रति इदानीं दशभिर्द्रष्टान्तैर्दुर्लभे मनुजत्वे सम्प्राप्ते च पुनस्तत्रापि दुर्लभतरे सम्यक्त्वे
जीवविचार
॥३३॥