________________
जीवविचारादि
प्रकरण
चतुष्टयम्
गाथाया बोध्यम्
"समुच्छि पणिदि थलयर, खयर उरग भुयय जिट्ठट्ठिइकमसो । वाससहस्सा चुलंसी बिसत्तरी तिपन्न बायाला ॥१॥" इति । (बृहत्संग्रहणी गाथा - २६३)
सर्वे सूक्ष्माः पृथ्व्यप्तेजोवायुवनस्पतयश्च पुनः साधारणाः बादरनिगोदरुपा अनंतकायिकाश्च । पुनः संमूच्छिमा मनुष्या | ये एकोत्तरशतक्षेत्रोत्पन्नगर्भजनराणां मलमूत्रवातादिषूत्पद्यन्ते ते सर्वेऽप्युत्कर्षेण जघन्येन च अन्तर्मुहूर्तमेव जीवन्ति अन्तर्मुहूर्तायुष इत्यर्थः । अन्तर्मुहूर्तस्यासंख्यभेदत्वान्नानात्वमवसेयम् ॥३८॥ अथोक्तं द्वारद्वयं निगमयन्नाह
ओगाहणाऽऽउ माणं एवं संखेवओ समक्खायं ।
जे पुण इत्थ विसेसा विसेससुत्ताउ ते नेया ॥३९॥
—
-
जीवविचार
अवगाहन्ते अवतिष्ठन्ते जीवा अस्यामित्यवगाहना देहः, तस्या आयुषश्च मानं प्रमाणं एवमुक्तप्रमाणेन संक्षेपतः समाख्यातं ॥२७॥ कथितं । ये पुनरत्र विशेषदेवलोकादौ प्रतराद्याश्रित्य अवगाहनायुर्भेदादयः सन्ति ते विशेषसूत्रात् संग्रहणीप्रज्ञापनादेर्ज्ञेया ज्ञातव्याः ||३९|| अथ तृतीयं स्वकायस्थितिद्वारमाह