________________
जीवविचारादि
प्रकरणचतुष्टयम्
खयरा रोमयपक्खी चम्मयपक्खी य पायडा चेव ।
नरोगाओ बाहिं समुग्गपक्खी विययपक्खी ॥२२॥
च पुन: पञ्चेन्द्रियाः तिर्यञ्चस्त्रिविधाः जलचराः १ स्थलचराः २ खचराः ३ । तत्र तावज्जलचारिणः पञ्चधा - शिंशुमारामहिषसदृशाः १ मत्स्याः २ कच्छपाश्च प्रसिद्धा एव तत्र मत्स्या वलयाकारं वर्जयित्वा विविधाकारवन्तो भवन्ति, ३ ग्रहास्तंतुकतया प्रसिद्धाः ४ मकरा महामत्स्याः ५ । एते जलचरा उक्ताः जले चरन्तीति व्युत्पत्तेः जलं विना विपद्यन्ते इत्यर्थः
जीवविचार
॥२०॥
तथा स्थलचरास्त्रिविधाः चतुष्पदाः १ उरः परिसर्पाः २ भुजपरिसर्पाश्च ३ । ते समासेन संक्षेपेण गोसर्पनकुलप्रमुखा बोद्धव्याः ज्ञातव्याः । अयम्भावः - चत्वारः पादा येषां ते चतुष्पदाः गोमहिषादयः १, उरसा परिसर्पन्ति गच्छन्ति ये ते | उरः परिसर्पाः कृष्णसर्पादयः २ भुजाभ्यां परिसर्पन्ति ये ते भुजपरिसर्पाः नकुलगृहगोधादयः २ एते स्थलचरा ज्ञेयाः ॥२१॥ तथा खे आकाशे चरन्तीति खचराः पक्षिणः । ते द्विधा - रोमजपक्षिणः १ चर्मजपक्षिणश्च २ । तत्र रोमभिर्जाता ये पक्षाः | | ते सन्त्येषामिति रोमजपक्षिणः सुकहंससारसादयः, चर्मणो जाताः पक्षाः सन्त्येषामिति चर्मजपक्षिणः वल्गुलीचर्मचटिकादय
॥१५॥