________________
जीवविचार
రసారసాగదగదగదగదందు
पंचिंदिया य चउहा, नारयतिरियामणुस्सदेवा य ।
नेरइया सत्तविहा नायव्वा पुढविभेएणं ॥१९॥ पञ्च स्पर्शनरसनघ्राणचक्षुःश्रोत्रनामकानीन्द्रियाणि येषां ते पञ्चेन्द्रिया जीवाः । ते चतुर्धा-नारकाः १ तिर्यंचो २ मनुष्याः |३ देवाश्च ४ । तत्र नैरयिका रत्नप्रभापृथ्वीभेदेन सप्तविधाः ज्ञातव्याः । पृथ्वीनां नामानि यथा-रत्नप्रभा १ शर्कराप्रभा २ | वालुकाप्रभा ३ पंकप्रभा ४ धूमप्रभा ५ तमःप्रभा ६ तमस्तमःप्रभा ७ चेति । एतत् स्थानसप्तकोत्पन्नत्वान्नारका अपि सप्तधोच्यन्ते ॥१९॥ पञ्चेन्द्रियेषु नारकभेदानुक्त्वा अथ गाथाचतुष्टयेन पञ्चेन्द्रियतिरश्चां मनुष्याणां च भेदानाह -
जलयरथलयरखयरा तिविहा पंचिंदिया तिरिक्खा य । सुसुमार मच्छ-कच्छव-गाहा-मगरा य जलचारी ॥२०॥ चउपय उरपरिसप्पा भुजपरिसप्पा य थलयरा तिविहा । गोसप्पनउलपमुहा बोधव्वा ते समासेणं ॥२१॥
నాగలాగసాగగురుపొందసాగసాంగసౌగసాగసాంగు
जीवविचारादिप्रकरणचतुष्टयम्
॥१४॥