________________
लोके ममोलात्वेन प्रसिद्धा आदिशब्दादन्येऽपि ग्राह्याः । एते सर्वेऽपि त्रीन्द्रिया जीवा ज्ञेयाः । एषां देहमुखनासिकाः इस्युरित्यर्थः ॥१७॥ अथ कियतश्चतुरिन्द्रियभेदानाह - चरिंदिया य विच्छू ढिकुण भमरा य भमरिया तिड्डा ।
जीवविचार मच्छिय डंसा मसगा कंसारी कविलडोलाइ ॥१८॥ १ च पुनर्वक्ष्यमाणा जीवाश्चतुरिन्द्रिया उच्यन्ते । एषां देहमुखघ्राणचढूंषि स्युरित्यर्थः । तान्दर्शयति-वृश्चिकः प्रसिद्धः, १ B/ टिंकुणा जीवविशेषाः, भ्रमराः कृष्णवर्णाः, भ्रमरिकाः पीतादिविविधवर्णाः विविधाकारवत्यश्च, तिडाः प्रसिद्धाः, मक्षिका
अपि प्रतीता एवोपलक्षणान्मधुमक्षिकादयोऽपि ग्राह्याः, दंशाः सिन्धुदेशप्रसिद्धा वर्षोद्भवाः, मशकास्तु दंशकाकारवन्तः सर्वर्तुभाविनश्च, कंसारिका प्रसिद्धा, कपिलडोलका जीवविशेषः, खडमांकडीति प्रसिद्धः, आदिशब्दात् पतंगढिंढणादयो ग्राह्याः । एवमन्येऽप्यनेके चतुरिन्द्रिया जीवा ज्ञेयः ॥१८॥ अथ पञ्चेन्द्रियभेदानाह -
6000606/oo06006606d6dboard
Honomidnid6d6dohidnidood
प्रकरणचतुष्टयम्
॥१३॥