SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ जीवविचारादि प्रकरण चतुष्टयम् संखकवड्डयगंडुल, जलोयचंदणगअलसलहगाई । मेहरि किमि पूअरगा, बेइंदियमाईवाहाई ॥ १५ ॥ शंखः प्रसिद्धः, कपर्दको वराटः, गंडोला उदरान्तर्बृहत्कृमयः, जलौकसः प्रसिद्धाः, चंदनकाः समयभाषयाऽक्षत्वेन प्रतीताः, अलसा भूनागाः ये वर्षाकाले वृष्टौ सत्यां भुव्युत्पद्यन्ते, लहका लालीयकजीवाः ये कूथितपूयिकादौ लालारूपाः | समुत्पद्यन्ते, केचित्तु लहुगा इति पठन्ति लघुगात्रीति तस्यार्थः, अत्रापि पाठे त एव जीवा ज्ञेयाः, मेहरत्ति काष्ठकीटविशेषाः, | कृमय उदरान्तवर्तिजीवाः, हर्षा मूलगुदप्रदेशकंडूकरा स्त्रीयोन्यन्तर्गता वा गडूत्पन्ना वा अनेकधा ज्ञेयाः, पूतरका जलान्तर्वतिनो | रक्तवर्णाः कृष्णमुखजीवाः, मातृवाहिका गुर्जरदेशप्रसिद्धाः चूडेलित्तिनाम्ना विख्याताः, आदिशब्दात् शुक्त्यादयो वालकादयश्च द्वीन्द्रियभेदा अनुक्ता अपि ग्राह्याः । बालका ये मनुष्यांगे करपादादिषूत्पद्यन्ते । इहोभयत्रादिपदग्रहणाद् द्वीन्द्रिया | जलजस्थलजभेदभिन्ना अनेकधा ग्राह्याः । एवं सर्वेऽपि द्वीन्द्रिया जीवा ज्ञेयाः । एषां देहवदनरूपमिन्द्रियद्वयमस्तीत्यर्थः | ॥ १५ ॥ अथ गाथाद्वयेन कतिचित् त्रीन्द्रियभेदानाह - जीवविचार ॥११॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy