SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ जीवविचारादि प्रकरण चतुष्टयम् Sonde प्रत्येकवृक्षाणां सप्तसु स्थानेषु पृथग्जीवाः सन्ति । तानि स्थानानि दर्शयति - फलानि १ पुष्पाणि २ छल्लयः ३ काष्ठानि ४ मूलानि ५ पत्राणि ६ बीजानि ७ चेति । इह प्रत्येकवनस्पतीनां नाममात्रमुपदर्शितं, भेदविशेषविचारस्तु प्रज्ञापनादिभ्योऽवसेयः ॥१३॥ अथ सर्वैकेन्द्रियानाश्रित्य पृथ्व्यादयः पंचापि क्व क्व सन्तीति तद्विशेषमाह पत्तेयतरुं मुत्तुं पंचवि पुढवाइणो सयललोए । सुहुमा हवंति नियमा अंतमुहुत्ताउ अहिस्सा ॥१४॥ - प्रत्येकतरुं मुक्त्वा पंचापि पृथिव्यादयः सूक्ष्मैकेन्द्रिया नियमात् निश्चयेन सकललोके चतुर्दशरज्जुप्रमाणे लोके भवन्ति | विद्यन्ते । परं ते कीदृशा: ? नियमादन्तर्मुहूर्तायुषः । पुनः कीदृशाः ? अदृश्याश्चर्मचक्षुषामगोचराः केवलिनां ज्ञानगोचराः | इत्यर्थः । अत एव वह्निशस्त्रादिभ्यः तेषामुपघातो न भवति ॥१४॥ उक्ताः स्थावरभेदाः, सांप्रतं क्रमायातास्त्रसाः ते च | द्वित्रिचतुः पंचेन्द्रियभेदाच्चतुर्धा, तेषु तावद् द्वीन्द्रियभेदाना - जीवविचार ॥१०॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy