________________
जीवविचार
060060606/06d6d6d6d6d6d
श श्रुते सिद्धान्ते वनस्पतिजीवा द्विधा भणिता उक्ताः । तत्रैके साधारणाः अन्ये प्रत्येकाः । तत्र तावत्साधारणस्वरूपं दर्शयति एसित्ति एषां वनस्पतिजीवानामनंतानामेका तनुरेकं शरीरं ते साधारणा अनंतकायिका ज्ञेया, एषां निगोद इत्यपि संज्ञाऽस्ति ॥८॥ अथ लोकप्रसिद्धान् कतिचिदनन्तकायान्नामग्राहमाह -
कंदा अंकुर किसलय, पणगा सेवाल भूमिफोडा अ । अल्लयतिय गज्जर मोत्थ, वत्थुला थेग पल्लंका ॥९॥ कोमलफलं च सव्वं, गूढसिराइं सिणाइ-पत्ताई ।
थोहरि कुंआरि गुग्गुलि, गलोय पमुहाइ छिन्नरुहा ॥१०॥ कंदाः भूमध्यगाः वृक्षाद्यवयवास्ते चार्द्रा एव गृह्यन्ते शुष्काणां निर्जीवत्वात् एवमग्रेऽपि, अंकुरा उद्गमनावस्थायामव्यक्तपत्राद्यवयवाः, किशलयानि उद्गच्छनूतनकोमलदलानि, पनका पञ्चवर्णा फुल्लिः, शेवालं प्रसिद्धम्, भूमिस्फोटानि ग्रीष्मवर्षाकालभावीनि छत्राकाराणि, अल्लयतियत्ति-आर्द्रकत्रिकं आर्द्राकं श्रृंगबेरं १ आर्द्रा हरिद्रा २ कवृक्श्च तिक्तद्रव्यविशेषः
60060606060606060060460
जीवविचारादिप्रकरणचतुष्टयम्
INI!