________________
जीवविचारादि
प्रकरण
चतुष्टयम्
स्फटिक: प्रसिद्धः, मणयश्चन्द्रकान्तादयः, रत्नानि वज्रकर्केतनादीनि यद्वा समुद्रोद्भवाः मणयः खनिसमुद्भवानि रत्नानि विद्रुमः प्रवाल:, हिंगुलहरितालमनः शिलाः प्रसिद्धा एव, रसेन्द्रः पारदः । तथा कनकादयः सप्त धातवः ते चामी - स्वर्ण १ रुप्य २ ताम्र ३ लोह ४ त्रपु ५ सीसक ६ जसदाः ७ । एषामग्निसंयोगात्पूर्वं पृथ्वीकायत्वं अग्निसंयोगे त्वग्निकायत्वं । 2, जीवविचार | सेढीत्ति खटिका, वर्णिका रक्तमृत्तिका, अरणेटक: पाषाणखंडमिश्रितश्वेतमृत्तिकारूपो देशविशेषप्रसिद्धः, पलेवकः पाषाणभेदः
॥३॥
अभ्रकाणि पञ्चवर्णानि, तूरी वस्त्राणां पाशहेतुर्मृत्तिकाविशेषः, उषः क्षारभूमिः यत्रांकुरोत्पत्तिर्न भवति तथा मृत्तिकाजातयः पाषाणजातयश्चानेकाः, सौवीराञ्जनं श्वेतकृष्णादिभेदभिन्नमञ्जनं, लवणं सैन्धवादि प्रसिद्धमेव, आदिशब्दादन्येऽपि पृथिवीभेदा ग्राह्या इत्यादयः पृथ्वीकायभेदाः स्युः ||४|| अथाप्कायभेदानाह
-
भोमंतरिक्खमुदगं, ओसाहिमकरगहरितणूमहिया । हुति घणोदहिमाई, भेआणेगा य आउस्स ॥५॥
11811