________________
षोडशयोजनशतानि पर्वतमुल्लंघ्य रोहितादेव्यधिष्ठिते गंगाप्रपातकुंडाद् द्विगुणायामविष्कंभे दशयोजनोद्वेधे रोहिताप्रपातकुंडे | निपत्य शब्दापातिनं चतुर्थांशेन परिधाय गव्यूतद्वयेनास्पृशंत्यष्टाविंशत्या नदीसहस्रैः समं रोहितांशासमविस्तारा रोहिता | | पूर्वोदधि प्राविशत् । तथोत्तरद्वारान्निर्गत्य प्रवाहे पंचविंशतियोजनायामा मुखे तु दशगुणविस्तारा स्वनाम्नि कुंडे निपत्य जंबूद्वीप एकयोजनास्पृष्टगंधापातिका प्रवाहे मुखे च क्रमेणार्द्धपंचयोजनोद्वेधा षट्पंचाशन्नदीसहस्रसहिता हरिकांता पश्चिमोदधिं गता। तस्मिन् पर्वतेऽष्टौ कूटानि, तद्यथा-सिद्धार्यतन-महाहिमवत्-हैमवंत-रोहिता-ही-हरिकांता-हरिद्-वैडूर्यनामानि, है| हिमवत्कूटतुल्यानि स्वनामधेयदैवतानि ।
तस्मादुत्तरस्यां दिशि हरिवर्षं क्षेत्रं तत्र युगलिनः प्रागुक्तयुगलिकेभ्यो द्विगुणविशेषणाः केवलं कृतचतुःषष्टिदिनापत्यपालना: जीवविचारादि-15
षष्ठप्रांते विहिताहाराश्च, तस्य बहुमध्यदेशभागेऽरुणदेववसतिः शब्दापातिविशिष्टो गंधापाती । कालस्तु तत्र सुषमारूप: सदैव।
तदुत्तरो हरिवर्षक्षेत्राद् द्विगुणविस्तारश्चतुःशतयोजनोच्छ्रयस्तपनीयमयो निषधगिरिः, तदुपरि महापद्माद् द्विगुणायामविष्कंभो चतुष्टयम्
॥१४१॥ |दशयोजनावगाढः पद्महूदविशिष्टपद्मपूर्णः कृतधृतिदेवीनिवासः तिगिछिहदः, तद्दक्षिणदिग्भागे सैककलानि सप्तसहस्राणि चत्वारि शतानि एकविंशानि योजनानां पर्वतमुल्लंघ्य स्वनामकुंडं मध्येकृत्य हरिकांतावत् केवलं पूर्वोदधि गता हरित्सलिला ।
Piromidniwoodmoria
m606 6060606006006006006
प्रकरण
indain