________________
तद॰च्चेन रजतमयेन वैताढ्यपर्वतेन द्विधा कृतं, तेन दक्षिणभरतार्द्धमुत्तरभरतार्द्ध चेति भण्यते । हिमवत्पर्वतोव॑तलस्थितात् पद्महूदान्निर्गताभ्यां प्रथमं पूर्वापरयोर्गत्वा स्वस्वनामधेयकूटादावृत्य दक्षिणां दिशमनुश्रित्य विजयाढ्यपर्वतं विभिद्य दक्षिणलवणोदधि प्रविष्टाभ्यां गंगासिंधुभ्यां तच्च कृतषट्खंडं, तत्र च प्राणिप्राणव्यपरोपणप्रवणांत:करणम्लेच्छव्याप्तत्वादनार्याणि
शा जंबूद्वीप
संग्रहणी पंच खंडानि । एकं च वैताढ्यात् दक्षिणस्यां दिशि एकादशकलाधिकं चतुर्दशोत्तरं योजनशतमतिगत्य नवयोजनविस्तीर्णया है| द्वादशयोजनदीर्घया अयोध्यया नगर्या विराजितं, गंगासिंधुवैताढ्यदक्षिणसमुद्राणां मध्यस्थितं जिनचयर्द्धचक्रि
प्रमुखोत्तरपुरुषाध्यासितमार्य । उक्तं च - आर्यावर्तो जन्मभूमिर्जिनचयर्द्धचक्रिणामिति । तथा वैताढ्यऽपाच्यां तमिस्त्रा |गुहास्ति, सा च द्वादशयोजनायामा पंचाशद्योजनदैर्ध्या कृतकृतमालदेवनिवासा वेजयंतसमानद्वारा, तस्याश्च बहुमध्यदेशे |
द्वियोजनांतराले प्रत्येकं त्रियोजनविस्तारे उन्मग्नजलानिमग्नजले नद्यौ स्तः । एवं प्राच्यां नृत्तमालदेवाधिष्ठिता खंडप्रपातगुहा । तस्य च गिरेर्मूलाद्दशयोजनान्युत्प्लुत्य वेदिकावनखंडमंडितं पर्वतप्रमाणदैर्ध्य प्रत्येकं दशदशयोजनविस्तारं विद्याधरनगरश्रेणिद्वयं विद्यते, किंच दक्षिणदिग्वतिन्यां श्रेणी सुप्रजोभिर्जनपदैविराजितानि रथनूपुरचक्रवालपुरःसराणि पंचाशद्विद्याधरनगराणि, उत्तर श्रेणौ तु गगनवल्लभादीनि षष्टिः पुराणि, तेषु धरणेंद्रप्रकाशिताष्टाचत्वारिंशत्सहस्रमहाविद्याप्रसादोपनतप्रकम
666666
प्रकरणचतुष्टयम्
॥१३४॥