________________
जीवविचारादि
प्रकरण
चतुष्टयम्
विकला द्वीन्द्रिय-त्रीन्द्रिय- चतुरिन्द्रियाः पृथिव्यादिदशकात् पूर्वोक्तात् 'इंति' आगच्छन्ति इति विकलानां गतिः पुनस्तत्रैव मृत्वा यान्ति इति विकलानां गत्यागती, दंडका जाता: द्वाविंशतिः । अथ तिरश्चां गंत्यागती आह गमणागमणं गब्भयतिरिआणं सयलजीवठाणेसु ।
-
गर्भजतिरश्च सकलजीवस्थानेषु चतुर्विंशतिदण्डकेषु गमनं गतिः आगमनं च भवतीति तिरश्चां गत्यागती, दण्डका जातास्त्रयोविंशतिः । अथ मनुष्यस्य गत्यागती आह
—
सव्वत्थ जंति मणुआ तेउवाउहिं नो इंति ॥३५॥
मनुष्याः सर्वत्र चतुर्विंशतिदण्डकेषु मृत्वा यान्ति, संहनन - कालादिसद्भावे मुक्तावपि यान्ति इति गतिः, तेजोवायुभ्यां | सकाशात् नागच्छन्ति इति मनुष्याणां गत्यागती, इति गत्यागती आश्रित्य इति चतुर्विंशतिदण्डकलापनिका ।
अत्र संमूच्छिममनुष्याणामधिकारो नास्ति तथापि सोपयोगत्वेन तेषां गत्यागती अनया गाथया ज्ञेये, तथाहि -
दंडक
॥११४॥