________________
दडक
Hidionondonwlodmomorrons
पर्याप्ताः संख्यायुषो गर्भजास्तिर्यंचो नराश्च नरकसप्तके यान्ति, 'असन्नी खलु पढम' इति वचनात् असंज्ञिनोऽपि प्रथमां | पृथिवीं यावत् यान्ति परं तेषां नात्राऽधिकारः इति नारकाणां गतिः, तथा -
निरयउवट्टा एएसु उववज्जंति न सेसेसु ॥३१॥ नरकेभ्य उद्वत्ता निर्गता एतयोरेव तिर्यग-नरयोरेव विषये गच्छन्ति न शेषेषु द्वाविंशतिदण्डकेषु इत्यागतिः, इति नारकाणां गत्यागती, दण्डका जाताश्चतुर्दश ॥३१॥ अथ पृथिव्यपवनस्पतीनां त्रयाणां दण्डकानां गत्यागती आह -
पुढवी आउवणस्सइ मज्झे नारयविवज्जिया जीवा ।
सव्वे उववज्जंति नियनियकम्माणुमाणेणं ॥३२॥ सर्वे जीवा नारकविवर्जिताः त्रयोविंशतिदण्डकाः पृथिव्यपवनस्पतिमध्ये उत्पद्यन्ते परं निजनिजकर्मानुमानेन इति वदता सूत्रकारेण इति सूचितं स्वकृतं कर्म भुज्यते सर्वैः जीवैः न परकृतं इति पृथिव्यप्वनस्पतीनां गतिः ।।३२॥ आगतिमाह
606/06/06/oo06doiidnid6d6droid
जीवविचारादिप्रकरणचतुष्टयम्
| ॥११२॥